2025-12-29 10:00:57 by ambuda-bot
This page has not been fully proofread.
--i, 93. ]
प्रथमोऽङ्कः ।
अन्योन्यशस्त्रविनिपातनिकृत्तगात्र-
यौधाश्ववारणरथेषु महाहवेषु ।
क्रुद्धान्तकप्रतिमविक्रमिणो ममापि
भोः कष्टम् ।
वैधुर्यमापतति चेतसि युद्धकाले ॥ ६ ॥
पूर्वं कुन्त्यां समुत्पन्नो राधेय इति विश्रुतः ।
युधिष्ठिरादयस्ते मे यवीयांसस्तु पाण्डवाः ॥ ७ ॥
अयं स कालः क्रमलब्धशोभनो
गुणप्रकर्षो दिवसोऽयमागतः ।
निरर्थमत्रं च मयाहि शिक्षितं
पुनश्च मातुर्वचनेन वारितः ॥ ८ ॥
भोः शल्यराज श्रूयतां ममास्त्रस्य वृत्तान्तः ।
शल्यः - ममाप्यस्ति कौतूहमेनं वृत्तान्तं श्रोतुम् ।
३ कर्णः - पूर्वमेवाहं जामदग्न्यस्य सकाशं गतवानस्मि ।
शल्यः -- ततस्ततः ।
कर्णः - ततः,
विद्युल्लता कपिलतुङ्गजटाकलाप-
मुद्यत्प्रभावलयिनं परशुं दधानम् ।
क्षत्रान्तकं मुनिवरं भृगुवंशकेतुं
गत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि ॥ ९॥
शल्यः- ततस्ततः ।
४७९
कर्णः - ततो जमदग्निनो ममाशीर्वचनं दत्वा पृष्टोऽस्मि । को भवान्
३ किमर्थमिहागत इति ।
१. निरस्तमस्त्र । २. जामदग्न्येन ।
३