2026-01-19 16:48:09 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<pverse lang="sa">करितुरगरथस्थैः पार्थकेतोः पुरस्तात्
मुदितनृपतिसिंहैः सिंहनादः कृतोऽद्य ।
त्वरितमरिनिनादैर्दुस्स<ref>१</ref>हालोकवीरः
समरम<ref>२</ref>धिगतार्थः प्रस्थितो नागकेतुः ॥ ३ ॥</pverse>

<stage>( परिक्रम्य विलोक्य) </stage>अये अयमगङ्गराजः समरपरिच्छदपरिवृतः
शल्यराजेन सह स्वभवनान्निष्क्रम्येत एवाभिवर्तते । भोः ! किं नु
खलु युद्धोत्सवप्रमुखस्य दृष्टपराक्रमस्याभूतपूर्वो हृदयपरितापः ।
एष हि

<verse n="4" lang="sa">अत्युग्रदीप्तिविशदः समरेऽग्रगण्यः
शौर्ये च संप्रति सशोकमुपैति धीमान् ।
प्राप्ते निदाघसमये घनराशिरुद्धः
सूर्य: स्वभावरुचिमानिव भाति कर्ण: ॥ ४ ॥</verse>

यावदपसर्पामि ।<stage> (निष्क्रान्तः । )</stage>

<stage>(ततः प्रविशति यथानिर्दिष्टः कर्णः शल्यश्च । )</stage>

<speaker>कर्ण:-</speaker>

<verse lang="sa">मा तावन्मम शरमार्गलक्षभूताः
सं<ref>३</ref>प्राप्ताः क्षितिपतयः सजीवशेषाः ।
कर्तव्यं रणशिरसि प्रियं कुरूणां
द्रष्टव्यो यदि स भवेद्धनंजयो मे ॥ ५ ॥</verse>

शल्यराज ! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः ।

<speaker>शल्यः-</speaker>बाढम् । <stage>( चोदयति । )</stage>

<speaker>कर्णः - </speaker>अहो नु खलु

<footnote mark="१" lang="sa">दुःसहं लोकवीरः</footnote>
<footnote mark="२">० मभिगतार्थः</footnote>
<footnote mark="३">किं प्राप्ताः ।</footnote>
</page>

मुदितनृपतिसिंहैः सिंहनादः कृतोऽद्य ।
त्वरितमरिनिनादैर्दुस्स<ref>१</ref>हालोकवीरः
समरम<ref>२</ref>धिगतार्थः प्रस्थितो नागकेतुः ॥ ३ ॥</