This page has been fully proofread once and needs a second look.

४७८

कर्णभारे

[ i. 3.-

<page>

करितुरगरथस्थैः पार्थकेतोः पुरस्तात्

मुदितनृपतिसिंहैः सिंहनादः कृतोऽद्य ।

त्वरितमरिनिनादैर्दुस्स<ref>१</ref>हा लोकवीरः

समरम

समरम<ref>२</ref>
धिगतार्थः प्रस्थितो नागकेतुः ॥ ३ ॥

<stage>
( परिक्रम्य विलोक्य) </stage>अये अयमगङ्गराजः समरपरिच्छदपरिवृतः

शल्यराजेन सह स्वभवनान्निष्क्रम्येत एवाभिवर्तते । भोः ! किं नु

खलु युद्धोत्सवप्रमुखस्य दृष्टपराक्रमस्याभूतपूर्वो हृदयपरितापः ।

एष हि

<verse n="4" lang="sa">
अत्युग्रदीप्तिविशदः समरेऽग्रगण्यः

शौर्ये च संप्रति सशोकमुपैति धीमान् ।

प्राप्ते निदाघसमये घनराशिरुद्धः

सूर्य: स्वभावरुचिमानिव भाति कर्ण: ॥ ४ ॥

</verse>

यावदपसर्पामि ।<stage> (निष्क्रान्तः । )

</stage>

<stage>(ततः प्रविशति यथानिर्दिष्टः कर्णः शल्यश्च । )</stage>

<speaker>
कर्ण:-

(ततः प्रविशति यथानिर्दिष्टः कर्णः शल्यश्च । )

</speaker>

<verse lang="sa">
मा तावन्मम शरमार्गलक्षभूताः

सं<ref>३</ref>प्राप्ताः क्षितिपतयः सजीवशेषाः ।

कर्तव्यं रणशिरसि प्रियं कुरूणां

द्रष्टव्यो यदि स भवेद्धनंजयो मे ॥ ५ ॥

</verse>

शल्यराज ! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः ।

<speaker>
शल्यः -- </speaker>बाढम् । <stage>( चोदयति । )

</stage>

<speaker>
कर्णः - </speaker>अहो नु खलु

<footnote mark="
. " lang="sa">दुःसहं लोकवीरः</footnote>
<footnote mark="
. ">० मभिगतार्थः</footnote>
<footnote mark="
. ">किं प्राप्ताः ।

</footnote>
</page>