2025-12-29 10:00:57 by ambuda-bot
This page has not been fully proofread.
४७८
कर्णभारे
[ i. 3.-
करितुरगरथस्थैः पार्थकेतोः पुरस्तात्
मुदितनृपतिसिंहैः सिंहनादः कृतोऽद्य ।
त्वरितमरिनिनादैर्दुस्सहा लोकवीरः
समरमधिगतार्थः प्रस्थितो नागकेतुः ॥ ३ ॥
( परिक्रम्य विलोक्य) अये अयमगङ्गराजः समरपरिच्छदपरिवृतः
शल्यराजेन सह स्वभवनान्निष्क्रम्येत एवाभिवर्तते । भोः ! किं नु
३ खलु युद्धोत्सवप्रमुखस्य दृष्टपराक्रमस्याभूतपूर्वो हृदयपरितापः ।
एष हि
अत्युग्रदीप्तिविशदः समरेऽग्रगण्यः
शौर्ये च संप्रति सशोकमुपैति धीमान् ।
प्राप्ते निदाघसमये घनराशिरुद्धः
सूर्य: स्वभावरुचिमानिव भाति कर्ण: ॥ ४ ॥
यावदपसर्पामि । (निष्क्रान्तः । )
३ कर्ण:-
(ततः प्रविशति यथानिर्दिष्टः कर्णः शल्यश्च । )
मा तावन्मम शरमार्गलक्षभूताः
संप्राप्ताः क्षितिपतयः सजीवशेषाः ।
कर्तव्यं रणशिरसि प्रियं कुरूणां
द्रष्टव्यो यदि स भवेद्धनंजयो मे ॥ ५ ॥
शल्यराज ! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः ।
शल्यः -- बाढम् । ( चोदयति । )
३ कर्णः - अहो नु खलु
१. दुःसहं लोकवीरः । २. ० मभिगतार्थः । ३. किं प्राप्ताः ।