2025-12-29 10:00:57 by ambuda-bot
This page has not been fully proofread.
सूत्रधारः-
॥ eft: 11
भासनाटकचक्रे
कर्णभारम् ।
( नान्द्यन्ते ततः प्रविशति सूत्रधारः । )
नरमृगपतिवर्ष्यालोके न भ्रान्तनारी-
नरदनुजसुपर्वत्रातपाताल लोकः ।
करजकुलिशपालीभिन्नदैत्येन्द्रवक्षाः
सुररिपुबलहन्ता श्रीधरोऽस्तु श्रिये वः ॥ १ ॥
एवमार्यमिश्रान्विज्ञापयामि । ( परिक्रम्य, कर्ण दत्वा । ) अये किं नु
खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
( नेपथ्ये )
भो भो ! निवेद्यतां निवेद्यतां महाराजायाङ्गेश्वराय ।
सूत्रधारः - भवतु विज्ञातम् ।
संग्रामे तुमुले जाते कर्णाय कलिताञ्जलिः ।
निवेदयति संभ्रान्तो भृत्यो दुर्योधनाज्ञया ॥ २ ॥
( निष्क्रान्तः । )
प्रस्तावना ।
( ततः प्रविशति भटः । )
:- भो भोः ! निवेद्यतां निवेद्यतां महाराजायाङ्गेश्वराय युद्धकाल
भटः-
उपस्थित इति ।
१. सुपर्ण • इत्यादर्शपुस्तकेषूपलभ्यते ।
१