This page has been fully proofread once and needs a second look.

-i. 51.]

प्रथमोऽङ्कः ।

<page>
<verse lang="sa">
न तु जतुगृहे सुप्तान् भ्रातृन् दहन्ति निशाचराः

शिरास न तथा भ्रातुः पत्नीं स्पृशन्ति निशाचराः ।

न च सुतवधं संख्ये कर्तुं स्मरन्ति निशाचरा:

विकृतवपुषोऽप्युप्राचारा घृणा न तु वर्जिता ॥ ४७ ॥

</verse>

<speaker>
दुर्योधनः-

</speaker>

<verse lang="sa">
दूतः खलु भवान् प्राप्तो न त्वं युद्धार्थमागतः ।

गृहीत्वा गच्छ सन्देशं न वयं दूतघातकाः ॥ ४८ ॥

४७३

</verse>

<speaker>
घटोत्कचः-</speaker><stage>( सरोषम् )</stage> किं दूत इति मां प्रधर्षयसि । मा तावद् भोः !

न दूतोऽहम् ।

<verse lang="sa">
अलं वो व्यवसायेन प्रहरध्वं समाहताः

१ ।
ज्याच्छेदाद्दुर्बलो नाहमभिमन्युरिह स्थितः ॥ ४९ ॥

</verse>

महानेष कैशोरकोऽयं मे मनोरथः । अपि च,

<verse lang="sa">
दष्टोष्ठो मुष्टिमुद्यम्य तिष्ठत्येष घटोत्कचः ।

उत्तिष्ठतु पुमान् कश्चिद्गन्तुमिच्छेद्यमालयम् ॥ ५० ॥

</verse>

<stage>
( सर्वे उत्तिष्ठन्ति । )

</stage>

<speaker>
धृतराष्ट्रः - </speaker>पौत्र घटोत्कच ! मर्षयतु मर्षयतु भवान् । मद्वचनाव-

गन्ता भव ।

<speaker>
घटोत्कचः -</speaker> भवतु भवतु । पितामहस्य वचनाद् दूतोऽहमस्मि ।

तथापि हि न शक्नोमि रोषं धारयितुम् । कः प्रतिसंदेशः ।

<speaker>
दुर्योधनः- </speaker>आ कस्य विज्ञाप्यम् । मद्वचनादेवं स वक्तव्यः,

<verse>
किं व्यर्थं बहु भाषसे न खलु ते पारु<ref>२</ref>ष्यसाध्या वयं

कोपान्नार्हसि किंचिदेव वचनं युद्धं यदा दास्यसि ।

निर्याम्येष निरन्तरं नृपशतच्छत्रावलीभिर्वृत-

स्तिष्ठ त्वं सह पाण्डवैः प्रतिवचो दास्यामि ते सायकैः ॥ १५१ ॥

</verse>
<footnote mark="
. " lang="sa">समागताः । </footnote>
<footnote mark="
. ">पौरू(ब? ष्य ) साध्या ।

दू. २७

१५

</footnote>
</page>