2025-12-29 10:00:56 by ambuda-bot
This page has not been fully proofread.
-i. 51.]
प्रथमोऽङ्कः ।
न तु जतुगृहे सुप्तान भ्रातृन् दहन्ति निशाचराः
शिरास न तथा भ्रातुः पत्नीं स्पृशन्ति निशाचराः ।
न च सुतवधं संख्ये कर्तुं स्मरन्ति निशाचरा:
विकृतवपुषोऽप्युप्राचारा घृणा न तु वर्जिता ॥ ४७ ॥
दुर्योधनः-
दूतः खलु भवान् प्राप्तो न त्वं युद्धार्थमागतः ।
गृहीत्वा गच्छ सन्देशं न वयं दूतघातकाः ॥ ४८ ॥
४७३
घटोत्कचः-( सरोषम् ) किं दूत इति मां प्रधर्षयसि । मा तावद् भोः !
न दूतोऽहम् ।
अलं वो व्यवसायेन प्रहरध्वं समाहताः ।
ज्याच्छेदाद्दुर्बलो नाहमभिमन्युरिह स्थितः ॥ ४९ ॥
महानेष कैशोरकोऽयं मे मनोरथः । अपि च,
दष्टष्ठो मुष्टिमुद्यम्य तिष्ठत्येष घटोत्कचः ।
उत्तिष्ठतु पुमान कश्चिद्गन्तुमिच्छेद्यमालयम् ॥ ५० ॥
( सर्वे उत्तिष्ठन्ति । )
धृतराष्ट्रः - पौत्र घटोत्कच ! मर्षयतु मर्षयतु भवान् । मद्वचनाव-
३ गन्ता भव ।
घटोत्कचः - भवतु भवतु । पितामहस्य वचनादूतोऽहमस्मि ।
तथापि हि न शक्नोमि रोषं धारयितुम् । कः प्रतिसंदेशः ।
६ दुर्योधनः- आ कस्य विज्ञाप्यम् । मद्वचनादेवं स वक्तव्यः,
किं व्यर्थं बहु भाषसे न खलु ते पारुष्यसाध्या वयं
कोपान्नार्हसि किंचिदेव वचनं युद्धं यदा दास्यसि ।
निर्याम्येष निरन्तरं नृपशतच्छत्रावलीभिर्वृत-
स्तिष्ठ त्वं सह पाण्डवैः प्रतिवचो दास्यामि ते सायकैः ॥ १५१ ॥
१. समागताः । २. पौरू(ब? ष्य ) साध्या ।
दू. २७
१५