This page has been fully proofread once and needs a second look.

४७२

दूतघटोत्कचे

[i. 42.-

<page>
<verse lang="sa">
राजा वा यदि वा राजा बली वा यदि वा बली ।

बहुनात्र किमुक्तेन किमाह भवतां प्रभुः ॥ ४२ ॥
</verse>

<speaker>
घटोत्कचः -</speaker> अथ किमथ किम् । प्रभुरेव त्रैलोक्यनाथो भगवांश्च-

क्रायुधः । विशेषतोऽस्माकं प्रभुः । अपि च,

<verse>
अवसितमवगच्छ क्षत्रियाणां विनाशं

नृपशतविनिचित्या लाघवं चास्तु भूमेः ।

न हि तनयविनाशादुद्यतोयाग्रास्त्रमुक्तैः

समरशिरसि कश्चित्फल्गुनस्यातिभारः ॥ ४३ ॥

</verse>

<speaker>
शकुनि:-

</speaker>

यदि स्याद्वाक्यमात्रेण निर्जितेयं वसुन्धरा ।

वाक्ये वाक्ये यदि भवेत्सर्वक्षत्रवधः कृतः ॥ ४४ ॥

<speaker>
घटोत्कचः -</speaker> शकुनिरेष व्याहरति । भोः शकुने !

<verse lang="sa">
अक्षान्विमुञ्च शकुने ! कुरु बाणयोग्य-

मष्टापदं समरकर्मणि युक्तरूपम् ।

ह्यत्र दारहरणं न च राज्यतन्त्रं

प्राणाः पणोऽत्र रतिरुग्रेर<ref>१</ref>बलैश्च बाणैः ॥ ४५ ॥

</verse>

<speaker>
दुर्योधनः -</speaker> भो भोः ! प्रकृतिं गतः ।

<verse lang="sa">
क्षिपसि वदसि रूक्षं लंघयित्वा प्रमाणं

न च गणयास किञ्चिद्व्याहरन्दीर्घहस्तः

यदि खलु तव दर्पो मातृपक्षीशोग्ररूपो

वयमपि खलु रौद्राः राक्षसोग्रस्वभावाः ॥ ४६ ॥
</verse>

<speaker>
घटोत्कचः-</speaker>शान्तं शान्तं पापम् । राक्षसेभ्योऽपि भवन्त एव क्रूरतराः

कुतः,

<footnote mark="
. " lang="sa">०रुग्रफलाश्च बाणाः । </footnote>
<footnote mark="
. ">वृत्तं ।

१४

</footnote>
</page>