This page has not been fully proofread.

४७२
 
दूतघटोत्कचे
 
[i. 42.-
 
राजा वा यदि वा राजा बली वा यदि वा बली ।
बहुना किमुक्तेन किमाह भवतां प्रभुः ॥ ४२ ॥
घटोत्कचः - अथ किमथ किम् । प्रभुरेव त्रैलोक्यनाथो भगवांश्च-
क्रायुधः । विशेषतोऽस्माकं प्रभुः । अपि च,
अवसितमवगच्छ क्षत्रियाणां विनाशं
नृपशतविनिचित्या लाघवं चास्तु भूमेः ।
 
न हि तनयविनाशादुद्यतोयास्त्रमुक्तैः
समरशिरसि कश्चित्फल्गुनस्यातिभारः ॥ ४३ ॥
 
शकुनि:-
 
यदि स्याद्वाक्यमात्रेण निर्जितेयं वसुन्धरा ।
वाक्ये वाक्ये यदि भवेत्सर्वक्षत्रवधः कृतः ॥ ४४ ॥
घटोत्कचः - शकुनिरेष व्याहरति । भोः शकुने !
 
अक्षान्विमुञ्च शकुने ! कुरु बाणयोग्य-
मष्टापदं समरकर्मणि युक्तरूपम् ।
नत्र दारहरणं न च राज्यतन्त्रं
 
प्राणाः पणोऽत्र रतिरुग्रेबलैश्च बाणैः ॥ ४५ ॥
 
दुर्योधनः - भो भोः ! प्रकृतिं गतः ।
 
क्षिपसि वदसि रूक्षं लंघयित्वा प्रमाणं
 
न च गणयास किञ्चिद्व्याहरन्दीर्घहस्तः
 
यदि खलु तव दर्पो मातृपक्षीरूपो
 
वयमपि खलु रौद्राः राक्षसोग्रस्वभावाः ॥ ४६ ॥
घटोत्कचः-शान्तं शान्तं पापम् । राक्षसेभ्योऽपि भवन्त एव क्रूरतराः
 
कुतः,
 
१. ०रुग्रफलाश्च बाणाः । २. वृत्तं ।
 
१४