This page has been fully proofread once and needs a second look.

-i. 41.]

१२
<page>

<speaker>
धृतराष्ट्रः-

प्रथमोऽङ्कः ।

४७१

</speaker>

सक्रोधव्यवसायेन कृष्णेनैतदुदाहृतम् ।

पश्यामीव हि गाण्डीवी सर्वक्षत्रवधे घृधृतः ॥ ३७॥

<speaker>
सर्वे- </speaker>अहो हास्यमभिधानम् ।

<speaker>
घटोत्कचः - </speaker>किमेतद्धास्यते ।

<speaker>
दुर्योधन: -</speaker> एतद्धास्यते ।

<verse lang="sa">
देवैर्मन्त्रयते सार्धं स कृष्णो जातमत्सरः ।

पार्थेनैकेन यो वेत्ति निहतं राजमण्डलम् ॥ ३८ ॥

</verse>

<speaker>
घटोत्कच:-

</speaker>

<verse lang="sa">
हससि त्वमहं वक्ता प्रेषितश्चक्रपाणिना ।

श्रावितं पार्थकर्मेदमहो युक्तं तवैव तु ॥ ३९ ॥
</verse>

अपि च, भवतापि श्रारोतव्यो जनार्दन सन्देशः ।

<speaker>
दुश्शासनः - </speaker>मा तावत् भोः ! क्षत्रियावमानिन् !

पृथिव्यां शासनं यस्य धार्यते सर्वपार्थिवैः ।

सन्देशः श्रोष्यतेऽप्यन्यो न राज्ञस्तस्य संनिधौ ॥ ४० ॥

<speaker>
घटोत्कचः-</speaker>कथं दुश्शासनो व्याहरति । अरे दुश्शासन ! अराजा

नाम भवतां चक्रायुधः । हं भोः !

<verse lang="sa">
मुक्ता येन यदा पुरा नृपतयः प्रभ्रष्टमानोच्छ्रयाः

येनार्घ्यं नृपमण्डलस्य मिषतो भीष्माग्रहस्ताद्भुधृतम् ।

श्रीर्यस्याभिरता नियोगसुमुखी श्रीवक्षेष<ref>२</ref>शय्यागृहे

श्लाघ्यः पार्थिवपार्थिवस्तव कथं राजा न चक्रायुधः ॥ ४१ ॥

</verse>

<speaker>
दुर्योधनः- </speaker>दुश्शासन ! अलं विवादेन ।

८८

9.

<footnote mark="१" lang="sa">
जरापुरानृपतयः । </footnote>
<footnote mark="
. ">श्रीवत्स० ।

१३

</footnote>
</page>