This page has not been fully proofread.

-i. 41.]
 
१२ धृतराष्ट्रः-
 
प्रथमोऽङ्कः ।
 
४७१
 
सक्रोधव्यवसायेन कृष्णेनैतदुदाहृतम् ।
 
पश्यामीव हि गाण्डीवी सर्वक्षत्रवधे घृतः ॥ ३७॥
 
सर्वे- अहो हास्यमभिधानम् ।
 
घटोत्कचः - किमेतद्धास्यते ।
 
३ दुर्योधन: - एतद्धास्यते ।
 
देवैर्मन्त्रयते सार्धं स कृष्णो जातमत्सरः ।
पार्थेनैकेन यो वेत्ति निहतं राजमण्डलम् ॥ ३८ ॥
 
घटोत्कच:-
 
हससि त्वमहं वक्ता प्रेषितश्चक्रपाणिना ।
श्रावितं पार्थकर्मेदमहो युक्तं तवैव तु ॥ ३९ ॥
अपि च, भवतापि श्रातव्यो जनार्दन सन्देशः ।
दुश्शासनः - मा तावत् भोः ! क्षत्रियावमानिन् !
 
पृथिव्यां शासनं यस्य धार्यते सर्वपार्थिवैः ।
 
सन्देशः श्रोष्यतेऽप्यन्यो न राज्ञस्तस्य संनिधौ ॥ ४० ॥
घटोत्कचः-कथं दुश्शासनो व्याहरति । अरे दुश्शासन ! अराजा
नाम भवतां चक्रायुधः । हं भोः !
 
मुक्ता येन यदा पुरा नृपतयः प्रभ्रष्टमानोच्छ्रयाः
 
येनार्घ्यं नृपमण्डलस्य मिषतो भीष्माग्रहस्ताद्भुतम् ।
श्रीर्यस्याभिरता नियोगसुमुखी श्रीवक्षेशय्यागृहे
 
श्लाघ्यः पार्थिवपार्थिवस्तव कथं राजा न चक्रायुधः ॥ ४१ ॥
 
दुर्योधनः- दुश्शासन ! अलं विवादेन ।
 
८८
 
9. जरापुरानृपतयः । २. श्रीवत्स० ।
 
१३