This page has been fully proofread once and needs a second look.

४७०

दूतघटोत्कचे

<page>
<verse n="35" lang="sa">
मन्ये सुरैस्त्रिदिवरक्षणजातशङ्केकै-

[i. 35. -

स्त्रासान्निमीलितमुखोऽत्रभवान् हि सृष्टः ॥ ३५ ॥

</verse>

<stage>
( उपसृत्य )</stage> पितामह ! अभिवादये घटोत्क <stage>( इत्यर्धोक्ते ) न न
</stage> न न
अयमक्रमः । युधिष्ठिरादयश्च मे गुखोरवो भवन्तमभिवादयन्ति ।

पश्चाद्घटोत्कचोऽहमभिवादये ।

<speaker>
धृतराष्ट्रः -</speaker> एह्येहि पुत्र !

<verse lang="sa">
न ते'<ref>१</ref> प्रियं दुःखमिदं ममापि

यद् भ्रातृनाशाद् व्यथित<ref>२</ref>स्तवात्मा ।

इत्थं च ते नानुगतोयमर्थो

मत्पुत्रदोषात्कृपणीकृतोऽस्मि ॥ ३६ ॥

</verse>

<speaker>
घटोत्कचः - </speaker>अहो कल्याणः खल्वत्रभवान् । कल्याणानां प्रसूर्ति

पितामहमाह भगवांश्चक्रायुधः ।

<speaker>
धृतराष्ट्र:- </speaker> <stage>(आसनादुत्थाय । )</stage> किमाज्ञापयति भगवांश्चक्रायुधः ।

<speaker>
घटोत्कचः-</speaker>न न न । आसनस्थेनैव भवता श्रोतव्यो जनार्दनस्य सन्देशः ।

<speaker>
धृतराष्ट्रः-</speaker> यदाज्ञापयति भगवांश्चक्रायुधः । <stage>( उपविशति । )

</stage>

<speaker>
घटोत्कचः -</speaker> पितामह ! श्रूयताम् । हा वत्स अभिमन्यो ! हा वत्स

कुरुकुल प्रदीप ! हा वत्स यदुकुलप्रवाल ! तव जननीं मातुलं च

मामपि परित्यज्य पितामहं द्रष्टुमाशया स्वर्गमभिगतोऽसि । पिता-

मह ! एक पुत्रविनाशादर्जुनस्य तावदीदृशी खल्ववस्था, का पुन-

र्
भवतो भविष्यति । ततः क्षिप्रमिदानीमात्मबलाधानं कुरुष्व । यथा

ते
पुत्रशोकसमुत्थितोऽग्निर्न दहेत्प्राणमयं हविरिति ।

<footnote mark="
. " lang="sa">न मे ( प्रियादारवमिदं ? ) ममापि । </footnote>
<footnote mark="
. ">व्यासयसितः ।

१२

</footnote>
</page>