2025-12-29 10:00:56 by ambuda-bot
This page has not been fully proofread.
―i. 35. ]
धृतराष्ट्रः-
भटः-
प्रथमोऽङ्कः ।
अपि प्रविष्टं धरणीमप्यारूढं नभस्थलम् ।
सर्वत्रानुगमिष्यन्ति शरास्ते कृष्णचक्षुषः ॥ ३१ ॥
क्रूरमेवं नरपतिं नित्यमुद्यतशासनम् ।
यः कश्चिदपरो ब्रूयान्न तु जीवेत्स तत्क्षणम् ॥ ३२ ॥
( ततः प्रविशति घटोत्कचः । )
घटोत्कचः - एप भोः !
४६९
प्रयामि सौभद्रविनाशचोदिते दिदृक्षुरारिमनार्यचेतसम् ।
विचिन्तयंश्चक्रधरम्य शासनं यथा गजेन्द्रोऽङ्कशशङ्कितो बलिम्॥३३॥
( अधां विलोक्य) इदेमम्योपस्थानगृहद्वारम् । यावदवतरामि ।
( अवतीर्य ) आत्मनैवात्मानं निवेदयिष्ये । भोः !
हैडिम्बोऽस्मि घटोत्कचो यदुपतेर्वाक्यं गृहीत्वागतो
द्रष्टृयोsa मया गुरुः स्वचरितैर्दोषैर्गतः शत्रुताम् ।
दुर्योधनः-
एह्येहि प्रविशस्व शत्रुभवनं कौतूहलं मे महत्
धृष्टं श्रावय मां जनार्दनवचो दुर्योधनोऽहं स्थितः ॥ ३४ ॥
घटोत्कचः-( प्रविश्य ) अये अयमत्रभवान धृतराष्ट्र : । अनार्यशत-
म्योत्पादयिता । अयं ननु ललितगम्भीराकृतिविशेषः । आश्चर्य-
३ माश्चर्यम् ।
वृद्धोऽप्यनाततवलीगुरुसंहतांसः
श्रद्धेयरूप इव पुत्रशतस्य धृत्या ।
१. चो ( द ) कं । २. इदमन्योपस्थानद्वारमुखम् । ३. ( शत्रु ? शत )
संहतांसः । ४. सूत्या ।
११