This page has not been fully proofread.

४६८
 
दूतघटोत्कचे
 
[1.27.-
 
भट:-
 
तस्यैव व्यवसाय तुष्टहृदयैस्तद्विक्रमोत्साहिभि-
स्तुष्टास्यैर्जितमित्यवेक्ष्य सहसा नादः प्रहर्षात्कृतः ।
आक्रान्ता गुरुभिर्धराधरवरैः संक्षोभितैः पार्थिवै-
भूमिश्चागत संभ्रमेव युवतिस्तस्मिन् क्षणे कम्पिता ॥ २७ ॥
 
धृतराष्ट्रः-
 
प्रतिज्ञासारमात्रेण कम्पितेयं वसुन्धरा ।
 
सुव्यक्तं धनुषि स्पृष्टे त्रैलोक्यं विचलिष्यति ॥ २८ ॥
दुर्योधनः- जयत्रात ! किमनेन प्रतिज्ञातम् ।
 
भटः-
 
इति ।
 
येन मे निहतः पुत्रस्तुष्टिं ये च हते गताः ।
 
श्रः सूर्येऽम्तमसम्प्राप्ते निहनिष्यामि तानहम् ॥ २९ ॥
 
दुर्योधनः- प्रतिज्ञाव्याघाते किं प्रायश्चित्तम् ।
 
३ भटः-
:- चितारोहणं किल गाण्डीवेन सह ।
 
दुर्योधनः- मातुल ! चितारोहणं चितारोहणम् । वत्स दुश्शासन !
चितारोहणं चितारोहणम् । वयमपि तावत्प्रतिज्ञाव्याघाते प्रयत्न -
६ मनुतिष्ठामः ।
 
धृतराष्ट्र : - पुत्र ! किं करिष्यसि ।
 
दुर्योधनः- ननु सर्वाक्षौहिणी सन्दोहेन च्छादयिष्ये जयद्रथं ।
 
९ अपि च,
 
द्रोणोपदेशेन यथा तथाहं संयोजये व्यूहमभेद्यरूपम् ।
 
खिन्नाशयास्ते सगजाः सयोधा अप्राप्तकामा ज्वलनं विशेयुः ॥ ३० ॥
 
१. प्रकर्षात् । २. स्वरमात्रेण ।
 
१०