This page has been fully proofread once and needs a second look.

-i. 26.6]

प्रथमोऽङ्कः ।

४६७

<page>

<speaker>
दुर्योधनः- </speaker>ननु कर्ण एव तावन् ।

<speaker>
धृतराष्ट्रः - </speaker>अहो हास्यः खलु तपस्वी कर्णः ।

<speaker>
दुर्योधनः-</speaker> केन कारणेन ।

<speaker>
धृतराष्ट्रः -</speaker> श्रूयतां,

<verse lang="sa">
काक्रापनीतकवचोऽर्धरथः प्रमादी

व्याजोपलब्धविफला स्त्रवलो घृणावान ।

कर्णोऽर्जुनस्य किल याम्स्यति तुल्यभावं

यद्यस्त्रदानगुरवो दहनेन्द्ररुद्राः ॥ २३ ॥

</verse>

<speaker>
शकुनिः -</speaker> प्रभवति भवानस्मानवधीरयितुम् ।

<speaker>
धृतराष्ट्रः -</speaker> शकुनिरे व्याहरति । भोः शकुने !

त्वया हि यत्कृतं कर्म सततं द्यूतशालिना ।

तत्कुलम्स्यास्य वैराग्निर्बालेष्वपि न शाम्यति ॥ २४ ॥

<speaker>
दुर्योधनः- </speaker>अये,

<verse lang="sa">
भूमिकम्पः सशब्दोऽयं कुतो नु सहसोत्थितः ।

उल्काभिश्च पतन्तीभिः प्रज्वालितमिवाम्बरम् ॥ २५ ॥

</verse>

<speaker>
धृतराष्ट्रः - </speaker>पुत्र ! एवं मन्ये,

<verse lang="sa">
सुव्यक्तं निहतं

पौत्रमायस्तचेतसः ।

उल्कारूपाः पतन्त्येते महेन्द्रस्याश्रुबिन्दवः ॥ २६ ॥

</verse>

<speaker>
दुर्योधनः- </speaker>जयत्रात ! गच्छ पाण्डवशिबिरे शङ्खपटह सिंहनादरवो-

न्
मिश्रः किंकृतोऽयं शब्द इति ज्ञायताम् ।

<speaker>
भटः -</speaker> यदाज्ञापयति । <stage>( निष्क्रम्य प्रविश्य ) </stage>जयतु महाराजः । संशप्त-

कानीकनिवाहितप्रतिनिवृत्तेन धनंजयेन निहतं पुत्रमङ्कस्थमश्रुभिः

परिषिच्य जनार्दनावभर्त्सितेन प्रतिज्ञातं किलानेन ।

<speaker>
दुर्योधन: -नः -</speaker> किमिति किमिति ।

</page>