2025-12-29 10:00:55 by ambuda-bot
This page has not been fully proofread.
-i. 26.6]
प्रथमोऽङ्कः ।
४६७
दुर्योधनः- ननु कर्ण एव तावन् ।
धृतराष्ट्रः - अहो हास्यः खलु तपस्वी कर्णः ।
६ दुर्योधनः- केन कारणेन ।
धृतराष्ट्रः - श्रूयतां,
शकापनीतकवचोऽर्धरथः प्रमादी
व्याजोपलब्धविफला स्त्रवलो घृणावान ।
कर्णोऽर्जुनस्य किल याम्यति तुल्यभावं
यद्यदानगुरवो दहनेन्द्ररुद्राः ॥ २३ ॥
शकुनिः - प्रभवति भवानस्मानवधीरयितुम् ।
धृतराष्ट्रः - शकुनिरेप व्याहरति । भोः शकुने !
त्वया हि यत्कृतं कर्म सततं द्यूतशालिना ।
तत्कुलम्यास्य वैराग्निर्बालेष्वपि न शाम्यति ॥ २४ ॥
दुर्योधनः- अये,
भूमिकम्पः सशब्दोऽयं कुतो नु सहसोत्थितः ।
उल्काभिपतन्तीभिः प्रज्वालितमिवाम्बरम् ॥ २५ ॥
धृतराष्ट्रः - पुत्र ! एवं मन्ये,
सुव्यक्तं निहतं
पौत्रमायस्तचेतसः ।
उल्कारूपाः पतन्त्येते महेन्द्रस्याश्रुबिन्दवः ॥ २६ ॥
दुर्योधनः- जयत्रात ! गच्छ पाण्डवशिबिरे शङ्खपटह सिंहनादरवो-
मिश्रः किंकृतोऽयं शब्द इति ज्ञायताम् ।
३ भटः - यदाज्ञापयति । (निष्क्रम्य प्रविश्य ) जयतु महाराजः । संशप्त-
कानीकनिवाहितप्रतिनिवृत्तेन धनंजयेन निहतं पुत्रमङ्कस्थमश्रुभिः
परिषिच्य जनार्दनावभसितेन प्रतिज्ञातं किलानेन ।
६ दुर्योधन: - किमिति किमिति ।