This page has been fully proofread once and needs a second look.

४६६

दूतघटोत्कचे

<page>
<verse lang="sa">
सर्वेषां नः पश्यतां युध्यतां च

व्याया<ref>१</ref>मोष्णं गृह्य चापं करेण ।

सूर्येणैवाभ्यागतैरंशुजालैः

सर्वे बाणैर ङ्किता भूमिपालाः ॥ २० ॥

</verse>

<speaker>
धृतराष्ट्रः - </speaker>कष्टं भोः !

बालेनैकेन तावद्भोः ! सौभद्रेणेदृशं कृतम् ।

पुत्रव्यसनसन्तप्तः पार्थो वः किं करिष्यति ॥ २१ ॥

<speaker>
दुर्योधनः-</speaker> किं करिष्यति ।

<speaker>
धृतराष्ट्रः-</speaker> तत्करिष्यति, यत्सावशेपाषायुषो द्रक्ष्यथ ।

<speaker>
दुर्योधनः- </speaker>तात ! कम्स्ता दर्जुनो नाम ।

<speaker>
धृतराष्ट्रः -</speaker> पुत्र ! अर्जुन<fix>म</fix>पि न जानीषे ।

: - तात ! न जाने ।

<speaker>
दुर्योधनः-

</speaker> तात ! न जाने ।

<speaker>
धृतराष्ट्रः-

[i. 20-

</speaker>तेन हि अहमपि न जाने । किन्तु, अर्जुनस्य बलवीर्यज्ञाः

बहवः सन्ति । तान् पृच्छ ।

<speaker>
दुर्योधनः-</speaker> तात ! केऽर्जुनम्स्य बलवीर्यज्ञा मया प्रष्टव्याः ।

<speaker>
धृतराष्ट्रः -</speaker> पुत्र ! श्रूयताम् ।

<verse lang="sa">
शक्रं पृच्छ पुरा निवातकवचप्राणोपहारार्चितं

पृच्छास्त्रःरैः परितोपिषितं बहुविधैः कैरातरूपं हरम् ।

पृच्छामिग्निं भुजगाहुतिप्रणयिनं यम्स्तर्पितः खाण्डवे

विद्यारक्षितमद्य येन च जितस्त्वं पृच्छ चित्रांगदम् ॥ २२ ॥
</verse>

<speaker>
दुर्योधनः- </speaker>यद्येतद्वीर्यमर्जुनस्य किमस्माकं बले न सन्ति प्रतियोद्धा -

रोऽर्जुन

स्य ।

<speaker>
धृतराष्ट्रः - </speaker>पुत्र ! के ते ।

<footnote mark="
. " lang="sa">व्याधामोष्णं ।

</footnote>
</page>