This page has not been fully proofread.

४६६
 
दूतघटोत्कचे
 
सर्वेषां नः पश्यतां युध्यतां च
 
व्यायामोष्णं गृह्य चापं करेण ।
सूर्येणैवाभ्यागतरंशुजालैः
 
सर्वे बाणैर ङ्किता भूमिपालाः ॥ २० ॥
 
धृतराष्ट्रः - कष्टं भोः !
 
बालेनैकेन तावद्भोः ! सौभद्रेणेदृशं कृतम् ।
पुत्रव्यसनसन्तप्तः पार्थो वः किं करिष्यति ॥ २१ ॥
दुर्योधनः- किं करिष्यति ।
 
धृतराष्ट्रः- तत्करिष्यति, यत्सावशेपायुषो द्रक्ष्यथ ।
३ दुर्योधनः- तात ! कम्ता दर्जुनो नाम ।
 
धृतराष्ट्रः - पुत्र ! अर्जुनपि न जानीषे ।
 
: - तात ! न जाने ।
 
दुर्योधनः-
 
६ धृतराष्ट्रः-
 
[i. 20-
 
: - तेन हि अहमपि न जाने । किन्तु, अर्जुनस्य बलवीर्यज्ञाः
बहवः सन्ति । तान् पृच्छ ।
 
दुर्योधनः- तात ! केऽर्जुनम्य बलवीर्यज्ञा मया प्रष्टव्याः ।
 
९ धृतराष्ट्रः - पुत्र ! श्रूयताम् ।
 
शक्रं पृच्छ पुरा निवातकवचप्राणोपहारार्चितं
 
पृच्छास्त्रः परितोपितं बहुविधैः कैरातरूपं हरम् ।
पृच्छामि भुजगाहुतिप्रणयिनं यम्तर्पितः खाण्डवे
 
विद्यारक्षितमद्य येन च जितस्त्वं पृच्छ चित्रांगदम् ॥ २२ ॥
दुर्योधनः- यद्येतद्वीर्यमर्जुनस्य किमस्माकं बले न सन्ति प्रतियोद्धा -
रोऽर्जुन ।
 
३ धृतराष्ट्रः - पुत्र ! के ते ।
 
१. व्याधामोष्णं ।