2026-01-21 03:17:05 by akprasad
This page has been fully proofread once and needs a second look.
प्रथमोऽङ्कः ।
<verse lang="sa">सौभद्रे निहते बाले हृदये कृष्णपार्थयोः ।
जीविते निरपेक्षाणां कथमाशीः प्रयुज्यते ॥ १५ ॥
<p><speaker>दुर्योधनः- </speaker>तात ! किंकृतोऽयं संभ्रमः ।
<p lang="sa"><speaker>धृतराष्ट्रः - </speaker>किंकृतोऽयं संभ्रम इति ।
४६५
<p lang="sa">एका कुलेऽस्मिन्बहुपुत्रनाथे लब्ध्वा सुता पुत्रशताद्विशिष्टा ।
सा बान्धवानां भवतां प्रसादाद् वैधव्यमश्लाघ्यमवाप्स्यतीति ॥ १६ ॥
<p><speaker>दुर्योधनः- </speaker>तात ! किं चात्र जयद्रथस्य ।
<p lang="sa"><speaker>धृतराष्ट्रः -
३
<p><speaker>दुर्योधनः-</speaker> आ तेन रुद्धा: । बहुभिः खल्वन्यैः ।
<p><speaker>धृतराष्ट्रः-</speaker> भोः ! कष्टम् ।
<verse lang="sa">बहूनां समवेतानामेकस्मिन्निर्घृणात्मनाम् ।
बाले पुत्रे प्रहरतां कथं न पतिता भुजाः ॥ १७ ॥
<p><speaker>दुर्योधनः-</speaker> तात !
<verse lang="sa">वृद्धं भीष्मं छलैर्हत्वा तेषां<ref>१</ref> न पतिता भुजाः ।
हत्वास्माकं पतिष्यन्ति तमबालपराक्रमम् ॥ १८ ॥
<p lang="sa"><speaker>धृतराष्ट्रः -</speaker> वत्स ! किं भीष्मस्य निपातनमभिमन्योश्च वधः समः ।
<p><speaker>दुर्योधनः-</speaker> तात ! कथं न समः ।
३
<p lang="sa"><speaker>धतराष्ट्रः -</speaker> पुत्र ! श्रूयताम्,
<verse lang="sa">स्वच्छन्दमृत्युर्निहतो हि भीष्मः स्वेनोपदेशेन कृतात्
अयं तु बालः कुरुवंशनाथरिछन्नोऽर्जुनस्य प्रथमः प्रवालः ॥ १९ ॥
<p><speaker>दुःशासन:- </speaker>तात ! बालो न बाल इति । अभिमन्युना,
<p><speaker>धृतराष्ट्रः - </speaker>किं किं दुश्शासनो व्याहरति ।
३
<p lang="sa"><speaker>दुश्शासन:-</speaker> अथ किम् ।
<footnote mark="१
<footnote mark="२
</page>