This page has not been fully proofread.

-i. 19.3]
 
प्रथमोऽङ्कः ।
 
सौभद्रे निहते बाले हृदये कृष्णपार्थयोः ।
 
जीविते निरपेक्षाणां कथमाशीः प्रयुज्यते ॥ १५ ॥
दुर्योधनः- तात ! किंकृतोऽयं संभ्रमः ।
 
धृतराष्ट्रः - किंकृतोऽयं संभ्रम इति ।
 
४६५
 
एका कुलेऽस्मिन्बहुपुत्रनाथे लब्ध्वा सुता पुत्रशताद्विशिष्टा ।
सा बान्धवानां भवतां प्रसादाद् वैधव्यमश्लाघ्यमवाप्स्यतीति ॥ १६ ॥
दुर्योधनः- तात ! किं चात्र जयद्रथस्य ।
 
धृतराष्ट्रः -- तेन किल वरविदग्धेन रुद्धाः पाण्डवाः !
३ दुर्योधनः- आ तेन रुद्धा: । बहुभिः खल्वन्यैः ।
धृतराष्ट्रः- भोः ! कष्टम् ।
 
बहूनां समवेतानामेकस्मिन्निर्घृणात्मनाम् ।
 
बाले पुत्रे प्रहरतां कथं न पतिता भुजाः ॥ १७ ॥
दुर्योधनः- तात !
 
वृद्धं भीष्मं छलैर्हत्वा तेषां न पतिता भुजाः ।
 
हत्वास्माकं पतिष्यन्ति तमबालपराक्रमम् ॥ १८ ॥
 
धृतराष्ट्रः - वत्स ! किं भीष्मस्य निपातनमभिमन्योश्च वधः समः ।
दुर्योधनः- तात ! कथं न समः ।
 
३ धतराष्ट्रः - पुत्र ! श्रूयताम्,
 
स्वच्छन्दमृत्युर्निहतो हि भीष्मः स्वेनोपदेशेन कृतात्मंतुष्टिः ।
अयं तु बालः कुरुवंशनाथरिछन्नोऽर्जुनस्य प्रथमः प्रवालः ॥ १९ ॥
दुःशासन:- तात ! बालो न बाल इति । अभिमन्युना,
धृतराष्ट्रः - किं किं दुश्शासनो व्याहरति ।
 
३ दुश्शासन:- अथ किम् ।
 
१. कथं । २. कृतात्मतुष्टः ।