2026-01-20 05:29:40 by akprasad
This page has been fully proofread once and needs a second look.
दूतघटोत्कचे
<verse lang="sa">रुद्धाः पाण्डुसुता जयद्रथबलेनाक्रम्य, शत्रोर्बलं
सौभद्रे विनिपातिते शरशतक्षेपैर्द्वितीयेऽर्जुने ।
प्राप्तैश्च व्यसनानि भीष्मपतनादस्माभिरद्याहवे
[ i. 12. -
तीव्राः शोकशराः कृताः खलु मन<ref>१</ref>स्येषां सुतोत्सादनात् ॥ १२ ॥
<p lang="sa"><speaker>शकु
<verse>जयद्रथेनाद्य महत्कृतं रणे नृपैरसंभावितमात्मपौरुषम् ।
प्रसह्य तेषां यदनेन संयुगे समं सुतेनाप्रतिमं हृतं यशः ॥ १३ ॥
<p><speaker>दुर्योधन: - </speaker>मातुल ! इत
भवन्तं तातमभिवादयिष्यामः ।
३
<p lang="sa"><speaker>शकुनिः -</speaker> वत्स दुर्योधन ! मामैवम् ।
<verse lang="sa">कामं न तस्य रुचितः कुलविग्रहोऽय-
मस्मांश्च गर्हयति स प्रियपाण्डवत्वात् ।
युद्धोत्थितैर्जयमवाप्य हि तुल्यरूपं
एवं प्रहृष्टवदनैर<ref>२</ref>भिगन्तुमेनम् ॥ १४ ॥
<p lang="sa"><speaker>दुर्योधनः-</speaker> मातुल ! मा मैवम् । यथा तथा भवतु । तत्रभवन्तं तात
मभिवादयिष्यामः ।
३
<p lang="sa"><speaker>उभौ - </speaker>बाढम् ।<stage> (परिक्रामति । )
<p lang="sa"><speaker>दुर्योधनः- </speaker>तात ! दुर्योधनोऽहमभिवादये ।
<p lang="sa"><speaker>दुश्शासन:-</speaker>तात ! दुश्शासनोऽहमभिवादये ।
६
<p lang="sa"><speaker>शकुनिः - </speaker>शकुनिरहमभिवादये ।
<p lang="sa"><speaker>सर्वे - </speaker>कथमाशीर्वचनं न प्रयुज्यते ।
<speaker>धृतराष्ट्रः -</speaker> पुत्र ! कथमाशीर्वचनमिति ।
<footnote mark="१
<footnote mark="२
</page>