2025-12-29 10:00:55 by ambuda-bot
This page has not been fully proofread.
४६४
दूतघटोत्कचे
रुद्धाः पाण्डुसुता जयद्रथबलेनाक्रम्य, शत्रोर्बलं
सौभद्रे विनिपातिते शरशतक्षेपैर्द्वितीयेऽर्जुने ।
प्राप्तैश्च व्यसनानि भीष्मपतनादस्माभिरद्याहवे
[ i. 12. -
तीव्राः शोकशराः कृताः खलु मनस्येषां सुतोत्सादनात् ॥ १२ ॥
शकुनि:-
जयद्रथेनाद्य महत्कृतं रणे नृपैरसंभावितमात्मपौरुषम् ।
प्रसह्य तेषां यदनेन संयुगे समं सुतेनाप्रतिमं हृतं यशः ॥ १३ ॥
दुर्योधन: - मातुल ! इतम्तावन् । दुश्शामन ! इतस्तावत् । तत्र-
भवन्तं तातमभिवादयिष्यामः ।
३ शकुनिः - वत्स दुर्योधन ! मामैवम् ।
कामं न तस्य रुचितः कुलविग्रहोऽय-
मस्मांश्च गर्हयति स प्रियपाण्डवत्वात् ।
युद्धोत्थितैर्जयमवाप्य हि तुल्यरूपं
एवं प्रहृष्टवदनैरभिगन्तुमेनम् ॥ १४ ॥
दुर्योधनः- मातुल ! मा मैवम् । यथा तथा भवतु । तत्रभवन्तं तात -
मभिवादयिष्यामः ।
३ उभौ - बाढम् । (परिक्रामति । )
दुर्योधनः- तात ! दुर्योधनोऽहमभिवादये ।
दुश्शासन:-तात ! दुश्शासनोऽहमभिवादये ।
६ शकुनिः - शकुनिरहमभिवादये ।
सर्वे - कथमाशीर्वचनं न प्रयुज्यते ।
धृतराष्ट्रः - पुत्र ! कथमाशीर्वचनमिति ।
१. मनाक्तेषां । २. 'र्गुवे हि गन्तुम् ।