This page has been fully proofread once and needs a second look.

-i. 11.']

प्रथमोऽङ्कः ।

४६३

<page>

<speaker>
धृतराष्ट्र:रः- </speaker>कथमर्जुनोऽपि नात्रासीत् ।

<speaker>
ट:टः - </speaker>महाराज ! अथ किम् ।

<speaker>
धृतराष्ट्रः - </speaker>कथमिदानीं वृत्तमेतत् ।

<speaker>
भटः- </speaker>श्रूयतां --संशप्तकानीक निवाहिते'<ref>१</ref> जनार्दनसहाये धनंजये स

बालभावादृदृष्टदोषः संग्राममवतीर्णः कुमारोऽभिमन्युः ।

<speaker>
धृतराष्ट्रः -</speaker> हन्त युक्तरूपोऽस्य वधः । कोहि संनिहितशार्दूलां

गुहां धर्षयितुं शक्तः । अथ शेषाः पाण्डवाः किमनुतिष्ठन्ति ।

<speaker>
भट:-</speaker> महाराज ! श्रूयताम् ।

<verse lang="sa">
चितां न तावत्स्वयमस्य देहमारोपयन्त्यर्जुनदर्शनार्थम् ।

तेषां च नामान्युपधारयन्ति यैस्तस्य गात्रे प्रहृतं नरेन्द्रैः ॥ ९ ॥

</verse>

<speaker>
धृतराष्ट्रः -</speaker> गान्धारि ! तदागम्यताम् । गङ्गाकूलमेव यास्यावः ।

<speaker>
गान्धारी-</speaker>महाराअ ! णं तहिं गाहामो ।<chaya> [ महाराज ! ननु तत्र

३ गाहावहे । ]

</chaya>

<speaker>
धृतराष्ट्र:रः-</speaker> गान्धारि ! शृणु ।

<verse lang="sa">
अद्यैव दास्यामि जलं हतेभ्यः स्वेनापराधेन तवात्मजेभ्यः ।

त्वस्मि शक्तः सलिलप्रदानैः कर्तुं नृपाणां शिबिरोपरोधम् ॥१०॥
</verse>

<stage>
( ततः प्रविशति दुर्योधनो दुःशासनः शकुनिध । )

</stage>

<speaker>
दुर्योधनः- </speaker>वत् दुश्शासन !

<verse lang="sa">
यातोऽभिमन्यु निधनात् स्थिरतां विरोधः

प्राप्तो जयः प्रचलिता रिपवो निरस्ताः

उन्मूलितोऽस्य च मदो मधुसूदनस्य

लब्धो मयाद्य सममभ्युदयेन शब्दः ॥ ११ ॥

</verse>

<speaker>
दुश्शासन:-</speaker> अहो तु खलु,

<footnote mark="
. " lang="sa">निर्वासित ।

ते ।</footnote>
</page>