2025-12-29 10:00:55 by ambuda-bot
This page has not been fully proofread.
-i. 11.']
प्रथमोऽङ्कः ।
४६३
धृतराष्ट्र:- कथमर्जुनोऽपि नात्रासीत् ।
भट: - महाराज ! अथ किम् ।
६ धृतराष्ट्रः - कथमिदानीं वृत्तमेतत् ।
भटः- श्रूयतां --संशप्तकानीक निवाहिते' जनार्दनसहाये धनंजये स
बालभावादृदृष्टदोषः संग्राममवतीर्णः कुमारोऽभिमन्युः ।
९ धृतराष्ट्रः - हन्त युक्तरूपोऽस्य वधः । कोहि संनिहितशार्दूलां
गुहां धर्षयितुं शक्तः । अथ शेषाः पाण्डवाः किमनुतिष्ठन्ति ।
भट:- महाराज ! श्रूयताम् ।
चितां न तावत्स्वयमस्य देहमारोपयन्त्यर्जुनदर्शनार्थम् ।
तेषां च नामान्युपधारयन्ति यैस्तस्य गात्रे प्रहृतं नरेन्द्रैः ॥ ९ ॥
धृतराष्ट्रः - गान्धारि ! तदागम्यताम् । गङ्गाकूलमेव यास्यावः ।
गान्धारी-महाराअ ! णं तहिं गाहामो । [ महाराज ! ननु तत्र
३ गाहावहे । ]
धृतराष्ट्र:- गान्धारि ! शृणु ।
अद्यैव दास्यामि जलं हतेभ्यः स्वेनापराधेन तवात्मजेभ्यः ।
नत्वस्मि शक्तः सलिलप्रदानैः कर्तुं नृपाणां शिबिरोपरोधम् ॥१०॥
( ततः प्रविशति दुर्योधनो दुःशासनः शकुनिध । )
दुर्योधनः- वत्म दुश्शासन !
यातोऽभिमन्यु निधनात् स्थिरतां विरोधः
प्राप्तो जयः प्रचलिता रिपवो निरस्ताः
उन्मूलितोऽस्य च मदो मधुसूदनस्य
लब्धो मयाद्य सममभ्युदयेन शब्दः ॥ ११ ॥
दुश्शासन:- अहो तु खलु,
१. निर्वासित ।