This page has been fully proofread once and needs a second look.

४६२

दूतघटोत्कचे

<page>
<verse lang="sa">
भर्तुस्ते नूनमत्यन्तमवैधव्यं न रोचते ।

[i. 7. -

येन गाण्डीवबाणानामात्मा लक्षीकृतः स्वयम् ॥ ७ ॥
</verse>

<speaker>
दुःशला - </speaker>तेण हि अणुजागादु मं तादो, अहं वि गमिस्सं बहुए

उत्तराए आसं । [ तेन ह्यनुजानातु मां तातः, अहमपि गमिष्यामि

वध्वा उत्तरायाः सकाशम् । ]

<speaker>
धृतराष्ट्रः -</speaker> वत्से किमभिधास्यसि ।

<speaker>
दुःशला -</speaker> ताद ! एवं च भणिम्स्सं-अज्जकाळिअं च दे वेसग्गहणं

अहं वि उवधारइम्स्सामिति ।<chaya> [ तात ! एवं च भणिष्यामि - अद्य-

कालिकं च ते वेग्रहणमहमप्युपधारयिष्यामीति ]

</chaya>

<speaker>
गान्धारी -</speaker> पुत्तिए ! माखु मा खु अमंगळं भणाहि । जीवदि खु

दे भत्ता । <chaya>[ पुत्रिके ! मा खलु मा खल्वमङ्गलं भण । जीवति खलु

ते भर्ता । ]

</chaya>

<speaker>
दुःशला - </speaker>अम्ब ! कुढ़ोदो मे एत्तिआणि भाअधेआणि । जो जण-
१२

द्दणसहाअस्स धणंजअस्स विप्पिअं करिअ कोहि णाम जीविस्सिदि ।

<chaya>
[ अम्ब ! कुतो मे एतावन्ति भागधेयानि । यो जनार्दनसहायस्य

धनञ्जयस्य विप्रियं कृत्वा को हि नाम जीविष्यति । ]

१५
</chaya>

<speaker>
धृतराष्ट्रः - </speaker>सत्यमाह् तपस्विनी दुश्शला । कुतः,

<verse>
कृष्णस्याष्टभुजोपधानरचिते योऽङ्के विवृद्धश्विचिरं

यो मत्तस्य हलायुधस्य भवति प्रीत्या द्वितीयो मदः ।

पार्थानां सुरतुल्यविक्रमवतां स्नेहम्स्य यो भाजनं

तं हत्वा क इहोपल<error>म्य</error><fix>प्स्य</fix>ति चिरं स्वैर्दुष्कृतैर्जीवितम् ॥ ८ ॥
</verse>

जयत्रात ! अथ तदवस्थं पुत्रं दृष्ट्वा किं प्रतिपन्नं तेन गाण्डीव-

धन्वना ।

<speaker>
भटः - </speaker>महाराज ! किं वार्जुनसमीपे वृत्तमेतत् ।

</page>