This page has not been fully proofread.

४६२
 
दूतघटोत्कचे
 
भर्तुस्ते नूनमत्यन्तमवैधव्यं न रोचते ।
 
[i. 7. -
 
येन गाण्डीवबाणानामात्मा लक्षीकृतः स्वयम् ॥ ७ ॥
दुःशला - तेण हि अणुजागादु मं तादो, अहं वि गमिस्सं बहुए
उत्तराए आसं । [ तेन ह्यनुजानातु मां तातः, अहमपि गमिष्यामि
३ वध्वा उत्तरायाः सकाशम् । ]
 
धृतराष्ट्रः - वत्से किमभिधास्यसि ।
 
दुःशला - ताद ! एवं च भणिम्सं-अज्जकाळिअं च दे वेसग्गहणं
६ अहं वि उवधारइम्सामिति । [ तात ! एवं च भणिष्यामि - अद्य-
कालिकं च ते वेपग्रहणमहमप्युपधारयिष्यामीति ]
 
गान्धारी - पुत्तिए ! माखु मा खु अमंगळं भणाहि । जीवदि खु
९ दे भत्ता । [ पुत्रिके ! मा खलु मा खल्वमङ्गलं भण । जीवति खलु
ते भर्ता । ]
 
दुःशला - अम्ब ! कुढ़ो मे एत्तिआणि भाअधेआणि । जो जण-
१२ द्दणसहाअस्स धणंजअस्स विप्पिअं करिअ कोहि णाम जीविस्सिदि ।
[ अम्ब ! कुतो मे एतावन्ति भागधेयानि । यो जनार्दनसहायस्य
धनञ्जयस्य विप्रियं कृत्वा को हि नाम जीविष्यति । ]
 
१५ धृतराष्ट्रः - सत्यमाह् तपस्विनी दुश्शला । कुतः,
कृष्णस्याष्टभुजोपधानरचिते योऽङ्के विवृद्धश्विरं
 
यो मत्तस्य हलायुधस्य भवति प्रीत्या द्वितीयो मदः ।
पार्थानां सुरतुल्यविक्रमवतां स्नेहम्य यो भाजनं
 
तं हत्वा क इहोपलम्यति चिरं स्वैर्दुष्कृतैर्जीवितम् ॥ ८ ॥
जयत्रात ! अथ तदवस्थं पुत्रं दृष्ट्वा किं प्रतिपन्नं तेन गाण्डीव-
 
धन्वना ।
 
३ भटः - महाराज ! किं वार्जुनसमीपे वृत्तमेतत् ।