This page has not been fully proofread.

―i. 6.10]
 
प्रथमोऽङ्कः ।
 
४६१
 
कुळविगहे वत्तमाणे वाळभावणिमज्जहं अम्हाणं भग्गकमेण
३ करअंतो कहिं दाणिं पोत्तअ ! गदोसि । [ हा वत्स अभिमन्यो !
fesपि नाम पुरुषक्षयकारके कुलविग्रहे वर्तमाने बालभावनिमज्जन-
मस्माकं भाग्यक्रमेण कुर्वन् कुत्रेदानीं पौत्रक ! गतोऽसि । ]
 
६ दुःशला: - जेण दाणि वहूए उत्तराए वेधव्वं दाइदं, तेण अत्तणो
जुवदिजणस्स वेधव्वमादिट्टं । [ येनेदानीं वध्वै उत्तरायै वैधव्यं दत्तं,
तेनात्मनो युवतिजनाय वैधव्यमादिष्टम् । ]
 
९ धृतराष्ट्रः - अथ केनैष व्यसनार्णवस्य सेतुबन्धः कृतः ।
 
भट: - महाराज ! मया ।
 
धृतराष्ट्रः - को भवान् ।
 
१२ भट: - महाराज ! ननु जयत्रातोऽस्मि ।
 
धृतराष्ट्र : - जयत्रात !
 
केनाभिमन्युर्निहतः कस्य जीवितमप्रियम् ।
 
पञ्चानां पाण्डवाग्नीनां आत्मा केनेन्धनीकृतः ॥ ६ ॥
 
भटः- महाराज ! बहुभिः किल पार्थिवैः समागतैर्निहतः कुमारोऽ-
भिमन्युः । स्यात्तु जयद्रथो निमित्तभूतः ।
 
३ धृतराष्ट्रः - हन्त जयद्रथो निमित्तभूतः ।
भट: - महाराज ! अथ किम् ।
धृतराष्ट्रः - हन्त जयद्रथो निहतः ।
 

 
( तच्छ्रुत्वा दुःशला रोदिति । )
 
धृतराष्ट्रः - कैषा रोदिति ।
 
प्रतीहारी - महाराअ ! भट्टिदारिआ दुश्शळा । [ महाराज ! भर्तृ-
 
९ दारिका दुःशला । ]
 
धृतराष्ट्रः - वत्से अलमलं रुदितेन । पश्य,