This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
४६०

</ignore>
<ignore lang="sa">
दूतघटोत्कचे

</ignore>

<stage>
( ततः प्रविशति भटः । )

[i. 2.

</stage>

<speaker>
भटः - </speaker>भो भोः ! निवेद्यतां तावत्पुत्रशतश्लाघ्यबान्धवाय विज्ञान-

विस्तारितविनयाचारदीर्घचक्षुषे महाराजाय धृतराष्ट्राय । एष खलु

योधस्यन्दनवाजिवारणवधैर्विक्षोभ्य राज्ञां बलं

बालेनार्जुनकर्म येन समरे लीलायता दर्शितम् ।

सौभद्रः स रणे नराधिपशतैर्वेगागतैः सर्वशः

खे शक्रस्य पितामहस्य सहसैवोत्सङ्ग मारोपितः ॥ ३ ॥

<stage>
( तत: प्रविशति धृतराष्ट्रो गान्धारी दुःशला प्रतिहारी च । )
</stage>

<speaker>
धृतराष्ट्रः - </speaker>कथं नु भोः !

केनैतच्छ्रतिपथदूषणं कृतं मे

कोऽयं मे प्रियमिति विप्रियं ब्रवीति ।

कोऽस्माकं शिशुवधपातकाङ्कितानां

वंशस्य क्षयमवघोषयत्यभीतः ॥ ४ ॥

<speaker>
गान्धारी - </speaker>महाराअ ! अत्थि उण जाणीअदि केवळं पुत्तसंखअका-

ओ कुळविग्गोगहो भविस्सिदि त्ति । <chaya>[ महाराज ! अस्ति पुनर्ज्ञायते

केवलं पुत्रसंक्षयकारक :कः कुलविग्रहो भविष्यतीति ]
</chaya>

<speaker>
धृतराष्ट्रः - </speaker>गान्धारि ! ज्ञायते ।

<speaker>
गान्धारी - </speaker>महाराअ कदा णु खु । <chaya>[ महाराज कदा नु खलु । ]
</chaya>

<speaker>
धृतराष्ट्रः - </speaker>गान्धारि ! शृणु

अद्याभिमन्युनिधनाज्जनितप्रकोपः

सामर्षकृष्णधृतरश्मिगुणप्रतोदः ।

पार्थः करिष्यति तदुग्रधनुः सहायः

शान्तिं गमिष्यति विनाशमवाप्य लोकः ॥ ५ ॥

<speaker>
गान्धारी- </speaker>हा वच्छ अभिमञ्ञो ! ईदिसे वि णाम पुरुसखअकारए

</page>