2025-12-29 10:00:54 by ambuda-bot
This page has not been fully proofread.
४६०
दूतघटोत्कचे
( ततः प्रविशति भटः । )
[i. 2.
भटः - भो भोः ! निवेद्यतां तावत्पुत्रशतश्लाघ्यबान्धवाय विज्ञान-
विस्तारितविनयाचारदीर्घचक्षुषे महाराजाय धृतराष्ट्राय । एष खलु
योधस्यन्दनवाजिवारणवधैर्विक्षोभ्य राज्ञां बलं
बालेनार्जुनकर्म येन समरे लीलायता दर्शितम् ।
सौभद्रः स रणे नराधिपशतैर्वेगागतैः सर्वशः
खे शक्रस्य पितामहस्य सहसैवोत्सङ्ग मारोपितः ॥ ३ ॥
( तत: प्रविशति धृतराष्ट्र गान्धारी दुःशला प्रतिहारी च । )
धृतराष्ट्रः - कथं नु भोः !
केनैतच्छ्रतिपथदूषणं कृतं मे
कोऽयं मे प्रियमिति विप्रियं ब्रवीति ।
कोऽस्माकं शिशुवधपातकाङ्कितानां
वंशस्य क्षयमवघोषयत्यभीतः ॥ ४ ॥
गान्धारी - महाराअ ! अत्थि उण जाणीअदि केवळं पुत्तसंखअका-
ओ कुळविग्गो भविस्सिदि त्ति । [ महाराज ! अस्ति पुनर्ज्ञायते
३ केवलं पुत्रसंक्षयकारक : कुलविग्रहो भविष्यतीति ]
धृतराष्ट्रः - गान्धारि ! ज्ञायते ।
गान्धारी - महाराअ कदा णु खु । [ महाराज कदा नु खलु । ]
६ धृतराष्ट्रः - गान्धारि ! शृणु
अद्याभिमन्युनिधनाज्जनितप्रकोपः
सामकृष्णधृतरश्मिगुणप्रतोदः ।
पार्थः करिष्यति तदुग्रधनुः सहायः
शान्तिं गमिष्यति विनाशमवाप्य लोकः ॥ ५ ॥
गान्धारी- हा वच्छ अभिमन ! ईदिसे वि णाम पुरुसखअकारए
२