2026-01-21 02:51:17 by akprasad
This page has been fully proofread once and needs a second look.
सूत्रधारः-
11 eft: 11
<subtitle lang="sa">॥ श्रीः ॥</subtitle>
<subtitle lang="sa">भासनाटकचक्रे
<title lang="sa">दूतघटोत्कचम् ।
<p lang="sa"><stage>( नान्यन्ते ततः प्रविशति सूत्रधारः । )
<verse lang="sa"><speaker>सूत्रधारः-</speaker>
नारायणस्त्रिभुवनैकपरायणो वः
पायादुपायश<ref>१</ref>तयुक्तिकरः सुराणाम् ।
लोकत्रयाविरतनाटकतन्त्रवस्तु-
प्रस्तावनप्रतिसमापन
<p lang="sa"><stage>( परिक्रम्य )</stage> एवमार्यमिश्रान्विज्ञापयामि । अये किं नु खलु मयि
विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग पश्यामि ।
<p lang="sa"><stage>(नेपथ्ये )
<p lang="sa">भो भो निवेद्यतां निवेद्यतां तावत् ।
२
<p lang="sa"><speaker>सूत्रधारः - </speaker>भवतु । विज्ञातम् । एष खलु संशप्तकानीकनिवाहिते
६
जनार्दनसहाये धनञ्जये तदनन्तरमुपगतभीष्मवधा
परिवार्य निपातितः कुमारोऽभिमन्युः । तथाहि
<verse lang="sa">यान्त्यर्जुनप्रत्यभियानभीता
यतोऽर्जुनस्तां दिशमीक्षमाणाः ।
नराधिपाः स्वानि निवेशनानि
सौभद्रबाणाङ्कितनष्टसंज्ञाः ॥ २ ॥
<p><stage>( निष्क्रान्तः । )
<trailer lang="sa">स्थापना ।
<footnote mark="१
<footnote mark="२
</page>