2025-12-29 10:00:54 by ambuda-bot
This page has not been fully proofread.
३
सूत्रधारः-
11 eft: 11
भासनाटकचक्रे
दूतघटोत्कचम् ।
( नान्यन्ते ततः प्रविशति सूत्रधारः । )
नारायणस्त्रिभुवनैकपरायणो वः
पायादुपायशतयुक्तिकरः सुराणाम् ।
लोकत्रयाविरतनाटकतन्त्रवस्तु-
प्रस्तावनप्रतिसमापन सूत्रधारः ॥ १ ॥
( परिक्रम्य ) एवमार्यमिश्रान्विज्ञापयामि । अये किं नु खलु मयि
विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग पश्यामि ।
(नेपथ्ये )
भो भो निवेद्यतां निवेद्यतां तावत् ।
२
सूत्रधारः - भवतु । विज्ञातम् । एष खलु संशप्तकानीकनिवाहिते
६ जनार्दनसहाये धनञ्जये तदनन्तरमुपगतभीष्मवधा मर्षितैर्धार्तराष्ट्रैः
परिवार्य निपातितः कुमारोऽभिमन्युः । तथाहि
यान्त्यर्जुनप्रत्यभियानभीता
यतोऽर्जुनस्तां दिशमीक्षमाणाः ।
नराधिपाः स्वानि निवेशनानि
सौभद्रबाणाङ्कितनष्टसंज्ञाः ॥ २ ॥
( निष्क्रान्तः । )
स्थापना ।
१. दुपायगत• । २. निर्वासिते ।