This page has been fully proofread once and needs a second look.

४५६

दूतवाक्ये

[ i. 54.5-

<page>

<speaker>
वासुदेव:- </speaker>अये वृद्धराजस्वर इव । भो राजन् ! एप स्थितोऽस्मि

<stage>
( तत: प्रविशति धृतराष्ट्रः । )

</stage>

<speaker>
धृतराष्ट्रः ---- क </speaker>क्वनुखलु भगवान् नारायणः । क्वनुखलु भगवान्

पाण्डवश्रेयस्करः । क्वनुखलु भगवान् विप्रप्रियः । क्वनुखलु भगवान्

देवकीनन्दनः ।

<verse lang="sa">
मम पुत्रापराधान्त् तु शार्ङ्गपाणे ! तवाधुना ।

एतन्मे त्रिदशाध्यक्ष ! पादयोः पतितं शिरः ॥ ५५ ॥
</verse>

<speaker>
वासुदेवः - </speaker>हा धिक् । पतितोऽत्रभवान् । उतिष्ठोत्तिष्ठ ।

<speaker>
धृतराष्ट्रः -</speaker> अनुगृहीतोऽस्मि । भगवन! इदमर्घ्यं पाद्यं च प्रति-

गृह्यताम् ।

<speaker>
वासुदेवः - </speaker>सर्वं गृह्णामि । किं ते भूयः प्रियमुपहरामि ।

<speaker>
धृतराष्ट्रः - </speaker>यदि मे भगवान् प्रसन्नः, किमतः परमिच्छामि ।

<speaker>
वासुदेवः - </speaker>गच्छतु भवान् पुनर्दर्शनाय ।

<speaker>
धृतराष्ट्रः - </speaker>यदाज्ञापयति भगवान् नारायणः । <stage>(निष्क्रान्तः । )
</stage>

<stage>
( भरतवाक्यम् )

</stage>

<verse lang="sa">
इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् ।

महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ ५६ ॥
</verse>

<stage>
( निष्कान्ताः सर्वे )

</stage>

<trailer lang="sa">
दूतवाक्यं समाप्तम् ।

१६

</trailer>
</page>