This page has not been fully proofread.

४५६
 

 
दूतवाक्ये
 
[ i. 54.5-
 
वासुदेव:- अये वृद्धराजस्वर इव । भो राजन् ! एप स्थितोऽस्मि
( तत: प्रविशति धृतराष्ट्रः । )
 
धृतराष्ट्रः ---- कनुखलु भगवान् नारायणः । कनुखलु भगवान्
पाण्डवश्रेयस्करः । कनुखलु भगवान् विप्रप्रियः । कनुखलु भगवान्
९ देवकीनन्दनः ।
 
मम पुत्रापराधान् तु शार्ङ्गपाणे ! तवाधुना ।
 
एतन्मे त्रिदशाध्यक्ष ! पादयोः पतितं शिरः ॥ ५५ ॥
वासुदेवः - हा धिक् । पतितोऽत्रभवान् । उतिष्ठोत्तिष्ठ ।
धृतराष्ट्रः - अनुगृहीतोऽस्मि । भगवन! इदमर्घ्यं पाद्यं च प्रति-
 
३ गृह्यताम् ।
 
वासुदेवः - सर्वं गृह्णामि । किं ते भूयः प्रियमुपहरामि ।
धृतराष्ट्रः - यदि मे भगवान प्रसन्नः, किमतः परमिच्छामि ।
६ वासुदेवः - गच्छतु भवान पुनर्दर्शनाय ।
 
धृतराष्ट्रः - यदाज्ञापयति भगवान नारायणः । (निष्क्रान्तः । )
( भरतवाक्यम् )
 
इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् ।
महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ ५६ ॥
( निष्कान्ताः सर्वे )
 
दूतवाक्यं समाप्तम् ।
 
१६