This page has not been fully proofread.

—i. 54.4 ]
 
प्रथमोऽङ्कः ।
 
सोऽयं खड्गः खरांशोरपहसिततनुः स्वैः करैर्नन्दकाख्यः
 
४५५
 
सेयं कौमोदकी या सुररिपुकठिनोरःस्थलक्षोददक्षा ।
सैषा शार्ङ्गभिधाना प्रलयघनरवज्यारखा चापरेखा
सोऽयं गम्भीरघोषः शशिकर विशदः शङ्खराट् पाञ्चजन्यः ॥५१॥
हे शार्ङ्ग ! कौमो कि ! पाञ्चजन्य !
 
दैत्यान्तकृन्नन्दक ! शत्रुवह्ने ! ।
प्रशान्तरोपो भगवान मुरारि :
 
स्वस्थानमेवात्र हि गच्छ तावन् ॥ ५२ ॥
 
हन्त निवृत्ताः । यावद् गच्छामि । अये अत्युद्भूतो वायुः । अति-
तपत्यादित्यः । चलिताः पर्वताः । क्षुब्धाः सागराः । पतिताः वृक्षाः ।
३ भ्रान्ता मेघाः । प्रलीना वासुकिप्रभृतयो भुजङ्गेश्वराः । किन्नुखल्वि-
दम् । अये अयं भगवतो वाहनो गरुडः प्राप्तः ।
 
सुरासुराणां परिखेदलब्धं येनामृतं मातृविमोक्षणार्थम् ।
 
आच्छिन्नमासीद् द्विषतो मुरारेस्त्वामुद्वहामीति वरोऽपि दत्तः ॥ ५३ ॥
हे काश्यपप्रियसुत ! गरुड ! प्रशान्तरोषो भगवान् देवदेवेशः ।
गम्यतां स्वनिलयमेव । हन्त निवृत्तः । यावद् गच्छामि ।
 
एते + + + + + + + + + +
 
+ + + संभ्रमचलन्म कुटोत्तमाङ्गाः ।
रुष्टेऽच्युते विगतकान्तिगुणाः प्रशान्तं
 
श्रुत्वा श्रयन्ति सदनानि निवृत्ततापाः ॥ ५४ ॥
 
यावदहमपि कान्तां मेरुगुहामेव यास्यामि । (निष्क्रान्तः । )
वासुदेवः - यावदहमपि पाण्डवशिबिरमेव यास्यामि ।
 

 
( नेपथ्ये )
 
नखलु नखलु गन्तव्यम् ।
 
१५