This page has been fully proofread once and needs a second look.

४५४

दूतवाक्ये

[ i. 46.5-

<page>

व्रजन्तु भवन्तः । यावद् गच्छामि । अये एतद् भगवदायुधवरं

शार्ङ्गं प्राप्तम् ।

<verse lang="sa">
तनुमृदुललिताङ्गं स्त्रीस्वभावोपपन्नं

हरिकरधृतमध्यं शत्रुसङ्गैककालः ।

कनकवचित पृष्ठं भाति कृष्णस्य पार्श्वे

नवसलिलदपार्श्वे चारुविद्युल्लतेव ॥ ४७ ॥

</verse>

भो भोः ! प्रशान्तरोषो भगवान् नारायणः । गम्यतां स्वनिलयमेव ।

हन्त निवृत्तः । यावद् गच्छामि । अये इयं कौमोदकी प्राप्ता ।

<verse>
मणिकनकविचित्रा चित्रमालालोत्तरीया

सुररिपुगणगान्रध्वंसने जाततृष्णा ।

गिरिवरतटरूपा दुर्निवारातिवीर्या

व्रजति नभसि शीघ्रं मेघवृन्दानुयात्रा ॥ ४८ ॥

</verse>

हे कौमो कि ! प्रशान्तरोषो भगवान् नारायणः । हन्त निवृत्ता ।

यावद् गच्छामि । अये अयं पाञ्चजन्यः प्राप्तः ।

<verse lang="sa">
पूर्णेन्दुकुन्दकुमुदोदरहारगौरो

नारायणानन सरोज कृतप्रसादः ।

यस्य स्वनं प्रलयसागरघोतुल्यं

गर्भा निशम्य निपतन्त्यसुराङ्गनानाम् ॥ ४९ ॥

</verse>

हे पाञ्चजन्य ! प्रशान्तरोषो भगवान् । गम्यताम् । हन्त निवृत्तः ।

अये नन्दकासिः प्राप्तः ।

<verse lang="sa">
वनिताविग्रहो युद्धे महासुरभयङ्करः ।

प्रयाति गगने शीघ्रं महोल्केव विभात्ययम् ॥ ५० ॥

</verse>

हे नन्दक ! प्रशान्तरोषो भगवान् । गम्यताम् । हन्त निवृत्तः ।

यावद् गच्छामि । अये एतानि भगवदायुधवराणि ।

१४

</page>