This page has not been fully proofread.

४५४
 
दूतवाक्ये
 
[ i. 46.5-
 
व्रजन्तु भवन्तः । यावद् गच्छामि । अये एतद् भगवदायुधवरं
 
६ शार्ङ्गं प्राप्तम् ।
 
तनुमृदुललिताङ्गं स्त्रीस्वभावोपपन्नं
 
हरिकरधृतमध्यं शत्रुसङ्गैककालः ।
 
कनकवचित पृष्ठ भाति कृष्णस्य पार्श्वे
 
नवसलिलदपार्श्वे चारुविद्युल्लतेव ॥ ४७ ॥
 
भो भोः ! प्रशान्तरोषो भगवान नारायणः । गम्यतां स्वनिलयमेव ।
हन्त निवृत्तः । यावद् गच्छामि । अये इयं कौमोदकी प्राप्ता ।
मणिकनकविचित्रा चित्रमालात्तरीया
 
सुररिपुगणगान्रध्वंसने जाततृष्णा ।
 
गिरिवरतटरूपा दुर्निवारातिवीर्या
 
व्रजति नभसि शीघ्रं मेघवृन्दानुयात्रा ॥ ४८ ॥
 
हे कौमो कि ! प्रशान्तरोषो भगवान नारायणः । हन्त निवृत्ता ।
यावद् गच्छामि । अये अयं पाञ्चजन्यः प्राप्तः ।
 
पूर्णेन्दुकुन्दकुमुदोदरहारगौरो
 
नारायणानन सरोज कृतप्रसादः ।
 
यस्य स्वनं प्रलयसागरघोपतुल्यं
 
गर्भा निशम्य निपतन्त्यसुराङ्गनानाम् ॥। ४९ ॥
 
हे पाञ्चजन्य ! प्रशान्तरोषो भगवान । गम्यताम् । हन्त निवृत्तः ।
अये नन्दकासिः प्राप्तः ।
 
वनिताविग्रहो युद्धे महासुरभयङ्करः ।
 
प्रयाति गगने शीघ्रं महोल्केव विभात्ययम् ॥ ५० ॥
 
हे नन्दक ! प्रशान्तरोषो भगवान् । गम्यताम् । हन्त निवृत्तः ।
यावद् गच्छामि । अये एतानि भगवदायुधवराणि ।
 
१४