This page has been fully proofread once and needs a second look.

-i. 46.14]

प्रथमोऽङ्कः ।

४५३

<page>

आपस्तावन् । हन्त स्रवति । <stage>( आचम्योपसृत्य )</stage> जयतु भगवान्

नारायण: । <stage>( प्रणमति । )

</stage>

<speaker>
वासुदेवः - </speaker>सुदर्शन ! अप्रतिहतपराक्रमो भव ।

<speaker>
सुदर्शनः -</speaker> अनुगृहीतोऽस्मि ।

<speaker>
वासुदेव:-</speaker> दिष्टथाट्या भवान् कर्मकाले प्राप्तः ।

<speaker>
सुदर्शनः–</speaker>कथं कथं कर्मकाल इति । आज्ञापयतु भगवानाज्ञापयतु ।

किं मेरुमन्दरकुलं परिवर्तयामि

संक्षोभयामि सकलं मकरालयं वा ।

नक्षत्र वंशमखिलं भुवि पातयामि

नाशक्यमस्ति मम देव ! तव प्रसादान्त् ॥ ४४ ॥

<speaker>
वासुदेवः -</speaker> भोः सुदर्शन ! इतस्तावत् । भोः सुयोधन !

<verse lang="sa">
यदि लवणजलं वा कन्दरं वा गिरीणां

ग्रहगणचरितं वा वायुमार्गं प्रयासि ।

मम भुजबल योगप्राप्तसंजातवेगं

भवतु चपल ! चक्रं कालचक्रं तवाद्य ॥ ४५ ॥

</verse>

<speaker>
सुदर्शनः -</speaker> भोः सुयोधनहतक ! <stage>( इति पुनर्विचार्य )</stage> प्रसीदतु

प्रसीदतु भगवान् नारायणः ।

<verse lang="sa">
महीभारापनयनं कर्तुं जातस्य भूतले ।

अस्मिन्नेव गते देव ! ननु स्याद् विफलः श्रमः ॥ ४६ ॥

</verse>

<speaker>
वासुदेवः -</speaker> सुदर्शन ! रोषात् समुदाचारो नावेक्षितः । गम्यतां

स्वनिलयमेव ।

<speaker>
सुदर्शनः -</speaker> यदाज्ञापयति भगवान् नारायणः । कथं कथं गोपालक

इति । त्रिचरणातिक्रान्तत्रिलोको नारायणः खल्वत्रभवान् । शरणं

१३

</page>