2025-12-29 10:00:53 by ambuda-bot
This page has not been fully proofread.
-i. 46.14]
प्रथमोऽङ्कः ।
४५३
आपस्तावन् । हन्त स्रवति । ( आचम्योपसृत्य ) जयतु भगवान्
नारायण: । ( प्रणमति । )
३ वासुदेवः - सुदर्शन ! अप्रतिहतपराक्रमो भव ।
सुदर्शनः - अनुगृहीतोऽस्मि ।
वासुदेव:- दिष्टथा भवान् कर्मकाले प्राप्तः ।
६ सुदर्शनः–कथं कथं कर्मकाल इति । आज्ञापयतु भगवानाज्ञापयतु ।
किं मेरुमन्दरकुलं परिवर्तयामि
संक्षोभयामि सकलं मकरालयं वा ।
नक्षत्र वंशमखिलं भुवि पातयामि
नाशक्यमस्ति मम देव ! तव प्रसादान् ॥ ४४ ॥
वासुदेवः - भोः सुदर्शन ! इतस्तावत् । भोः सुयोधन !
यदि लवणजलं वा कन्दरं वा गिरीणां
ग्रहगणचरितं वा वायुमार्गं प्रयासि ।
मम भुजबल योगप्राप्तसंजातवेगं
भवतु चपल ! चक्रं कालचक्रं तवाद्य ॥ ४५ ॥
सुदर्शनः - भोः सुयोधनहतक ! ( इति पुनर्विचार्य ) प्रसीदतु
प्रसीदतु भगवान् नारायणः ।
महीभारापनयनं कर्तुं जातस्य भूतले ।
अस्मिन्नेव गते देव ! ननु स्याद् विफलः श्रमः ॥ ४६ ॥
वासुदेवः - सुदर्शन ! रोषात् समुदाचारो नावेक्षितः । गम्यतां
स्वनिलयमेव ।
३ सुदर्शनः - यदाज्ञापयति भगवान् नारायणः । कथं कथं गोपालक
इति । त्रिचरणातिक्रान्तत्रिलोको नारायणः खल्वत्रभवान् । शरणं
१३