This page has been fully proofread once and needs a second look.

४५२

दूतवाक्ये

[i. 40.

<page>

आः तिष्ठेदानीम् । कथं न दृष्टः केशवः ।

अयं

केशवः । अहो

ह्रस्वत्वं केशवस्य । आः तिष्ठेदानीम् । कथं न दृष्टः केशवः ।

अयं केशवः । अहो दीर्घत्वं केशवस्य । कथं न दृष्टः केशवः । अयं

केशवः । सर्वत्र मन्त्रशालायां केशवा भवन्ति । किमिदानीं

करिष्ये । भवतु, दृष्टम् । भो भो राजानः ! एकेनैकः केशवो

बध्यताम् । कथं स्वयमेव पाशैर्बद्धाः पतन्ति राजानः । साधु भो

जम्भक !

साधु ।

<verse lang="sa">
मत्कार्मुको दर विनिःसृतबाणजालै-

र्
विद्वक्षरत्क्षतजरञ्जितसर्वगात्रम् ।

पश्यन्तु पाण्डुतनयाः शिविबिरोपनीतं

त्वां वाबाष्परुद्धनयनाः परिनिःश्रमन्तः ॥ ४१ ॥
</verse>

<stage>
( निष्क्रान्तः । )

</stage>

<speaker>
वासुदेवः - </speaker>भवतु,

पाण्डवानां कार्यमहमेव साधयामि । भोः

सुदर्शन ! इतस्तावत् ।

<stage>
( ततः प्रविशति सुदर्शनः । )

</stage>

<speaker>
सुदर्शन:नः-

</speaker> एप भोः !

श्रुत्वा गिरं भगवतो विपुलप्रसादा-

न्
निर्धावितोऽस्मि परिवारिततोयदौघः !

after

कस्मिन्
खलु प्रकुपितः कमलायताक्षः

कस्याद्य मूर्धनि मया प्रविजृम्भितव्यम् ॥ ४२ ॥

क्व
नुखलु भगवान् नारायणः ।

<verse lang="sa">
अव्यक्तादिरचिन्त्यात्मा लोकसंरक्षणोद्यतः ।

एकोऽनेकवपुः श्रीमान् द्विषढ़द्बलनिपूषूदनः ॥ ४३ ॥

</verse>

<stage>
( विलोक्य) </stage>अये अयं भगवान् हस्तिनपुरद्वारे दूतसमुदाचारेणोप-

स्थितः । कुतः खल्वापः कुतः खल्वापः । भगवति आकाशगङ्गे !

१२

</page>