2026-01-20 04:23:02 by akprasad
This page has been fully proofread once and needs a second look.
प्रथमोऽङ्कः ।
<p lang="sa"><speaker>वासुदेवः - </speaker>भोः सुयोधन ! ननु क्षिपसि माम् ।
<p><speaker>दुर्योधनः- </speaker>आः, अभाष्यस्त्वम् ।
४५१
<p lang="sa">अहमवधृतपाण्डरातपत्रो द्विजवरहस्तधृताम्बुसिक्तमूर्धा ।
अवनतनृपमण्डलानुयात्रैः सह कथयामि भवद्विधैर्न भाषे ॥३७॥
<p><speaker>वासुदेवः - </speaker>न व्याहरति किल मां सुयोधनः । भोः !
<verse lang="sa">शठ ! बान्धवनिःस्नेह ! काक ! केकर ! पिङ्गल ! ।
त्वदर्थान् कुरुवंशोऽयमचिरान्नाशमेष्यति ॥ ३८ ॥
<p>भो भो राजानः ! गच्छामस्तावत् ।
<p lang="sa"><speaker>दुर्योधनः-</speaker> कथं यास्यति किल केशवः । दुःशासन ! दुर्भर्षण !
३
दुर्मुख ! दुर्बुद्धे ! दुष्टेश्वर ! दूतसमुदाचारमतिक्रान्तः केशवो बध्य-
ताम् । कथ
<verse lang="sa">करितुरगनिहन्ता कंसहन्ता स कृष्णः
पशुपकुलनिवासादानुजीव्यानभिज्ञः ।
हृतभुजबलवीर्यः पार्थिवानां समक्षं
स्ववचनकृतदोषो बध्यतामेष शीघ्रम् ॥ ३९ ॥
<p lang="sa">अयमशक्तः । मातुल ! बध्यतामयं केशवः ।
पतति । भवतु, अहमेव पाशैर्बध्नामि । <stage>( उपसर्पति । )
३
<p lang="sa"><speaker>वासुदेवः - </speaker>कथं बद्धुकामो मां किल सुयोधनः । भवतु, सुयोधनस्य
सामर्थ्यं पश्यामि । <stage>( विश्वरूपमा
<p lang="sa"><speaker>दुर्योधनः- </speaker>भो दूत !
<verse lang="sa">सृजसि यदि समन्ताद् देवमायाः स्वमायाः
प्रहरसि यदि वा त्वं दुर्निवारैः सुराः ।
ह
नरपतिगणमध्ये बध्यसे त्वं मयाद्य ॥ ४० ॥
११
</page>