This page has not been fully proofread.

―i. 40. ]
 
प्रथमोऽङ्कः ।
 
वासुदेवः - भोः सुयोधन ! ननु क्षिपसि माम् ।
दुर्योधनः- आः, अभाष्यस्त्वम् ।
 
४५१
 
अहमवधृतपाण्डरातपत्रो द्विजवरहस्तधृताम्बुसिक्तमूर्धा ।
अवनतनृपमण्डलानुयात्रैः सह कथयामि भवद्विधैर्न भाषे ॥३७॥
वासुदेवः - न व्याहरति किल मां सुयोधनः । भोः !
 
शठ ! बान्धवनिःस्नेह ! काक ! केकर ! पिङ्गल ! ।
त्वदर्थान् कुरुवंशोऽयमचिरान्नाशमेष्यति ॥ ३८ ॥
भो भो राजानः ! गच्छामस्तावत् ।
 
दुर्योधनः- कथं यास्यति किल केशवः । दुःशासन ! दुर्भर्षण !
३ दुर्मुख ! दुर्बुद्धे ! दुष्टेश्वर ! दूतसमुदाचारमतिक्रान्तः केशवो बध्य-
ताम् । कथनशक्ताः । दुःशासन ! न समर्थः खल्वसि ।
 
करितुरगनिहन्ता कंसन्ता स कृष्णः
पशुपकुलनिवासादानुजीव्यानभिज्ञः ।
हृतभुजबलवीर्यः पार्थिवानां समक्षं
 
स्ववचनकृतदोषो बध्यतामेष शीघ्रम् ॥ ३९ ॥
 
अयमशक्तः । मातुल ! बध्यतामयं केशवः ।
 
कथं पराङ्मुखः
 
पतति । भवतु, अहमेव पाशैर्बध्नामि । ( उपसर्पति । )
 
३ वासुदेवः - कथं बद्धुकामो मां किल सुयोधनः । भवतु, सुयोधनस्य
 
सामर्थ्यं पश्यामि । ( विश्वरूपमा स्थितः । )
 
दुर्योधनः- भो दूत !
 
सृजसि यदि समन्ताद् देवमायाः स्वमायाः
 
प्रहरसि यदि वा त्वं दुर्निवारैः सुराः ।
 
ह ्यगजवृषभाणां पातनाज्जातदर्पो
 
नरपतिगणमध्ये बध्यसे त्वं मयाद्य ॥ ४० ॥
 
११