This page has been fully proofread once and needs a second look.

४५०

दूतवाक्ये

[i. 31.

<page>

<stage>
(प्रकाशम्) </stage>भोः सुयोधन ! किं न जानीषेऽर्जुनस्य बलपराक्रमम् ।

<speaker>
दुर्योधनः- </speaker>न जाने ।

<speaker>
वासुदेवः -</speaker> भो ! श्रूयतां,

<verse lang="sa">
कैरातं वपुरास्थितः पशुपतिर्युद्धेन संतोषितो

वह्नेः खाण्डवमश्नतः सुमहती वृष्टिः शरैश्छादिता ।

देवेन्द्रार्तिकरा निवातकवचा नीताः क्षयं लीलया

नन्वेकेन तदा विराटनगरे भीष्मादयो निर्जिताः ॥ ३२ ॥

</verse>

अपिच, तवापि प्रत्यक्षमपरं कथयामि ।

<verse lang="sa">
ननु त्वं चित्रसेनेन नीयमानो नभस्तलम् ।

विक्रोशन् घोषयात्रायां फल्गुनेनैव मोक्षितः ॥ ३३ ॥

</verse>

किं बहुना,

<verse lang="sa">
दातुमर्हसि मद्वाक्याद् राज्यार्धं धृतराष्ट्रज !

अन्यथा सागरान्तां गां हरिष्यन्ति हि पाण्डवाः ॥ ३४ ॥

</verse>

<speaker>
दुर्योधनः-</speaker> कथं कथम् । हरिष्यन्ति हि पाण्डवाः ।

प्रहरति यदि युद्धे मारुतो भीमरूपी

प्रहरति यदि साक्षात् पार्थरूपेण शक्रः ।

परुषवचनदक्ष ! त्वद्वचोभिर्न दास्ये

तृणमपि पितृभुक्ते वीर्यगुप्ते स्वराज्ये ॥ ३५ ॥

<speaker>
वासुदेवः-</speaker>भोः कुरुकुलकलङ्कभूत ! अयशोलुब्ध ! वयं किल तृणा-

न्तराभिभापकाः ।

<speaker>
दुर्योधनः-</speaker> भो गोपालक ! तृणान्तराभिभाप्ष्यो भवान् ।

<verse lang="sa">
अवध्यां प्रमदां हत्वा हयं गोवृषमेव च ।

मल्लानपि सुनिर्लज्जो वक्तुमिच्छसि साधुभिः ॥ ३६ ॥

१०

</verse>
</page>