This page has not been fully proofread.

४५०
 
दूतवाक्ये
 
[i. 31.
 
(प्रकाशम्) भोः सुयोधन ! किं न जानीषेऽर्जुनस्य बलपराक्रमम् ।
 
दुर्योधनः- न जाने ।
 
३ वासुदेवः - भो ! श्रूयतां,
 
कैरातं वपुरास्थितः पशुपतिर्युद्धन संतोषितो
 
वह्नेः खाण्डवमश्नतः सुमहती वृष्टिः शरैश्छादिता ।
देवेन्द्रार्तिकरा निवातकवचा नीताः क्षयं लीलया
नन्वेकेन तदा विराटनगरे भीष्मादयो निर्जिताः ॥ ३२ ॥
 
अपिच, तवापि प्रत्यक्षमपरं कथयामि ।
 
ननु त्वं चित्रसेनेन नीयमानो नभस्तलम् ।
 
विक्रोशन घोषयात्रायां फल्गुनेनैव मोक्षितः ॥ ३३ ॥
 
किं बहुना,
 
दातुमर्हसि मद्वाक्याद् राज्यार्धं धृतराष्ट्रज !
 
अन्यथा सागरान्तां गां हरिष्यन्ति हि पाण्डवाः ॥ ३४ ॥
 
दुर्योधनः- कथं कथम् । हरिष्यन्ति हि पाण्डवाः ।
 
प्रहरति यदि युद्धे मारुतो भीमरूपी
 
प्रहरति यदि साक्षात् पार्थरूपेण शक्रः ।
 
परुषवचनदक्ष ! त्वद्वचोभिर्न दास्ये
 
तृणमपि पितृभुक्ते वीर्यगुप्ते स्वराज्ये ॥ ३५ ॥
 
वासुदेवः-भोः कुरुकुलकलङ्कभूत ! अयशोलुब्ध ! वयं किल तृणा-
न्तराभिभापकाः ।
 
३ दुर्योधनः- भो गोपालक ! तृणान्तराभिभाप्यो भवान् ।
 
अवध्यां प्रमदां हत्वा हयं गोवृषमेव च ।
 
मल्लानपि सुनिर्लज्जो वक्तुमिच्छसि साधुभिः ॥ ३६ ॥
 
१०