This page has been fully proofread once and needs a second look.

-i. 31. ]

प्रथमोऽङ्कः ।

<page>

<speaker>
वासुदेवः - </speaker>भो सुयोधन ! अलं बन्धुजने परुषमभिधातुम् ।

<verse>
पुण्यसञ्चयसम्प्राप्तामधिगम्य नृपश्रियम् ।

वञ्च
येद् यः सुहृद्न्धून् स भवेद् विफलश्रमः ॥ २५ ॥

</verse>

<speaker>
दुर्योधनः-

म्
</speaker>

<verse lang="sa">स्
यालं तव गुगेरोर्भूपं कंसं प्रति न ते दया ।

कथमम्स्माकमेवं स्यात् तेषु नित्यापकारिषु ॥ २६ ॥
</verse>

<speaker>
वासुदेवः - </speaker>अलं तन्मद्दोषतो ज्ञातुम् ।

<verse lang="sa">
कृत्वा पुत्रवियोगार्तां बहुशो जननीं मम ।

४४९

वृद्धं स्वपितरं बनाद्ध्वा हतोऽयं मृत्युना स्वयम् ॥ २७॥
</verse>

<speaker>
दुर्योधनः- </speaker>सर्वथा वञ्चितस्त्वया कंसः । अलमात्मस्तवेन । न शौर्य -

मेतत् । पश्य,

<verse lang="sa">
जामातृनाशव्यसनाभितमेप्ते रोपाषाभिभूते मगधेश्वरेऽथ ।

पलायमानम्स्य भयातुरस्य शौर्यं तदेतत् क्व गतं तवासीत् ॥२८॥
</verse>

<speaker>
वासुदेवः - </speaker>भोः सुयोधन ! देशकालावस्थापेक्षितं खलु शौर्यं नया-

नुगामिनाम् । इह तिष्ठतु तावदस्मद्गतः परिहासः । स्वकार्य-

मनुष्ठीयताम् ।

<verse lang="sa">
कर्तव्यो भ्रातृपुषु स्नेहो विस्मर्तव्या गुणेतराः ।

<error>
सम्बधो</error><fix>संबन्धो</fix> बन्धुभिः श्रेयान् लोकयोरुभयोरपि ॥ २९॥

</verse>

<speaker>
दुर्योधन:-

</speaker>

<verse lang="sa">
देवात्मजैर्मनुष्याणां कथं वा बन्धुता भवेन् ।
त् ।
पिष्टपेषणमेतावत् पर्याप्तं विछिद्यतां कथा ॥ ३० ॥
</verse>

<speaker>
वासुदेव: - </speaker><stage>( आत्मगतम् )

</stage>

<verse lang="sa">
प्रसाद्यमानः साम्नायं न स्वभावं विमुञ्चति ।

हन्त संक्षोभयाम्येनं वचोभिः परुषाक्षरैः ॥ ३१ ॥

</verse>
</page>