2025-12-29 10:00:53 by ambuda-bot
This page has not been fully proofread.
-i. 31. ]
प्रथमोऽङ्कः ।
वासुदेवः - भो सुयोधन ! अलं बन्धुजने परुषमभिधातुम् ।
पुण्यसञ्चयसम्प्राप्तामधिगम्य नृपश्रियम् ।
वयेद्यः सुहृद्रन्धून् स भवेद् विफलश्रमः ॥ २५ ॥
दुर्योधनः-
म्यालं तव गुगेभूपं कंसं प्रति न ते दया ।
कथमम्माकमेवं स्यात् तेषु नित्यापकारिषु ॥ २६ ॥
वासुदेवः - अलं तन्मद्दोषतो ज्ञातुम् ।
कृत्वा पुत्रवियोगात बहुशो जननीं मम ।
४४९
वृद्धं स्वपितरं बना हतोऽयं मृत्युना स्वयम् ॥ २७॥
दुर्योधनः- सर्वथा वञ्चितस्त्वया कंसः । अलमात्मस्तवेन । न शौर्य -
मेतत् । पश्य,
जामातृनाशव्यसनाभितमे रोपाभिभूते मगधेश्वरेऽथ ।
पलायमानम्य भयातुरस्य शौर्यं तदेतत् क्व गतं तवासीत् ॥२८॥
वासुदेवः - भोः सुयोधन ! देशकालावस्थापेक्षितं खलु शौर्यं नया-
नुगामिनाम् । इह तिष्ठतु तावदस्मद्गतः परिहासः । स्वकार्य-
मनुष्ठीयताम् ।
कर्तव्यो भ्रातृपु स्नेहो विस्मर्तव्या गुणेतराः ।
सम्बधो बन्धुभिः श्रेयान् लोकयोरुभयोरपि ॥ २९॥
दुर्योधन:-
देवात्मजैर्मनुष्याणां कथं वा बन्धुता भवेन् ।
पिष्टपेषणमेतावत् पर्याप्तं विद्यतां कथा ॥ ३० ॥
वासुदेव: - ( आत्मगतम् )
प्रसाद्यमानः साम्नायं न स्वभावं विमुञ्चति ।
हन्त संक्षोभयाम्येनं वचोभिः परुषाक्षरैः ॥ ३१ ॥