This page has not been fully proofread.

४४८
 
दूतवाक्ये
 
[i. 19. -
 
धर्मात्मजो वायुसुतश्च भीमो भ्रातार्जुनो मे त्रिदशेन्द्रसूनुः ।
यमौ च तावश्वितौ विनीतौ सर्वे सभृत्याः कुशलोपपन्नाः ॥ १९ ॥
वासुदेवः - सदृशमेतद् गान्धारीपुत्रस्य । अथकिमथकिम् । कुश -
लिन सर्वे । भवतो राज्ये शरीरे बाह्याभ्यन्तरे च कुशलमनामयं
३ च पृना विज्ञापयन्ति युधिष्ठिरादयः पाण्डवाः-
 
इति ।
 
अनुभूतं महद्दुःखं संपूर्णः समयः स च ।
 
अम्माकमपि धर्म्यं यद् दायादयं तद् विभज्यताम् ॥ २० ॥
 
दुर्योधनः- कथं कथं दायाद्यमिति ।
 
वने पितृव्यो मृगयाप्रसङ्गतः कृतापराधो मुनिशापमाप्तवान् ।
तदाप्रभृत्येव स दारनिम्स्पृहः परात्मजानां पितृतां कथं व्रजेत् ॥ २१ ॥
वासुदेवः - पुराविदं भवन्तं पृच्छामि ।
 
विचित्रवीर्यो विषयी विपत्तिं क्षयेण यातः पुनरम्बिकायाम् ।
व्यासेन जातो धृतराष्ट्र एष लभेत राज्यं जनकः कथं ते ॥ २२ ॥
 
मा मा भवान
 
एवं परस्पर विरोधविवर्धनेन
 
शीघ्रं भवेत् कुरुकुलं नृप ! नामशेषम् ।
 
तन् कर्तुमर्हति भवानपकृष्य रोपं
 
यन् त्वां युधिष्ठिरमुखाः प्रणयाद् ब्रुवन्ति ॥ २३ ॥
दुर्योधनः- भो दूत ! न जानाति भवान् राज्यव्यवहारम् ।
राज्यं नाम नृपात्मजैः सहृदयैर्जित्वा रिपून् भुज्यते
तल्लोके न तु याच्यते न तु पुनर्दीनाय वा दीयते ।
काङक्षा चेन्नृपतित्वमाप्तुमचिरान् कुर्वन्तु ते साहसं
स्वैरं वा प्रविशन्तु शान्तमतिभिर्जुष्टं शमायाश्रमम् ॥ २४ ॥