2026-01-20 02:42:50 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa">दुष्टवादी गुणद्वेषी शठः स्वजननिर्दयः ।
सुयोधनो हि मां दृष्ट्वा नैव कार्यं करिष्यति ॥ १६ ॥</verse>

भो बादरायण ! किं प्रवेष्टव्यम् ।

<speaker>काञ्चुकीयः-</speaker>अथकिमथकिम् । प्रवेष्टुमर्हति पद्मनाभः ।

<speaker>वासुदेवः - </speaker><stage>( प्रविश्य)</stage> कथं कथं मां दृष्ट्रा संभ्रान्ताः सर्वक्षत्रियाः ।
अलमलं संभ्रमेण । स्वैरमासतां भवन्तः ।

<speaker>दुर्योधनः- </speaker>कथं कथं केशवं दृष्ट्वा संभ्रान्ताः सर्वक्षत्रियाः । अल-
मलं संभ्रमेण । स्मरणीयः पूर्वमाश्रावितो दण्डः । नन्वहमाज्ञप्ता ।

<speaker>वासुदेवः - </speaker>भोः सुयोधन ! किमास्से ।

<speaker>दुर्योधनः -</speaker> <stage>(आसनात् पतित्वा आत्मगतम् )</stage> सुव्यक्तं प्राप्त एव केशवः ।

<verse>उत्साहेन मतिं कृत्वाप्यासीनोऽस्मि समाहितः ।
केशवस्य प्रभावेन चलितोऽस्म्यासनादहम् ॥ १७ ॥</verse>

अहो बहुमायोऽयं दूतः । <speaker>( प्रकाशम् )</speaker> भो दूत ! एतदासन-
मास्यताम् ।

<speaker>वासुदेवः - </speaker>आचार्य ! आस्यताम् । गाङ्गेयप्रमुखा राजानः ! स्वैर-
मासतां भवन्तः । वयमप्युपविशामः । <stage>(उपविश्य )</stage> अहो दर्शनी-
योऽयं चित्रपटः । मा तावत् । द्रौपदीकेशधर्षणमत्रालिखितम् ।
अहोतुखलु,

<verse lang="sa">सुयोधनोऽयं स्वजनावमानं पराक्रमं पश्यति बालिशत्वात् ।
को नाम लोके स्वयमात्मदोषमुद्धाटयेन्नष्टघृणः सभासु ॥ १८ ॥</verse>

आः अपनीयतामेष चित्रपटः ।

<speaker>दुर्योधनः- </speaker>बादरायण ! अपनीयतां किल चित्रपटः ।

<speaker>काव्न्ञ्चुकीयः- </speaker>यदाज्ञापयति महाराजः । <stage>( अपनयति । )</stage>

<speaker>दुर्योधनः- </speaker>भो दूत !

</page>

<speaker>का

<speaker>दुर्योधनः- </speaker>भो दूत !

</page>