This page has been fully proofread once and needs a second look.

-i. 18.]

प्रथमोऽङ्कः ।

<page>
<verse lang="sa">
दुष्टवादी गुणद्वेषी शठः स्वजननिर्दयः ।

सुयोधनो हि मां दृष्ट्वा नैव कार्यं करिष्यति ॥ १६ ॥
</verse>

भो बादरायण ! किं प्रवेष्टव्यम् ।

<speaker>
काञ्चुकीयः-</speaker>अथकिमथकिम् । प्रवेष्टुमर्हति पद्मनाभः ।

४४७

<speaker>
वासुदेवः - </speaker><stage>( प्रविश्य)</stage> कथं कथं मां दृष्ट्रा संभ्रान्ताः सर्वक्षत्रियाः ।

अलमलं संभ्रमेण । स्वैरमासतां भवन्तः ।

<speaker>
दुर्योधनः- </speaker>कथं कथं केशवं दृष्ट्वा संभ्रान्ताः सर्वक्षत्रियाः । अल-

मलं संभ्रमेण । स्मरणीयः पूर्वमाश्रावितो दण्डः । नन्वहमाज्ञप्ता ।

<speaker>
वासुदेवः - </speaker>भोः सुयोधन ! किमास्से ।

<speaker>
दुर्योधन:नः - </speaker> <stage>(आसनात् पतित्वा आत्मगतम् )</stage> सुव्यक्तं प्राप्त एव केशवः ।

<verse>
उत्साहेन मतिं कृत्वाप्यासीनोऽस्मि समाहितः ।

केशवस्य प्रभावेन चलितोऽस्म्यासनादहम् ॥ १७ ॥

</verse>

अहो बहुमायोऽयं दृदूतः । <speaker>( प्रकाशम् )</speaker> भो दृदूत ! एतदासन-

मास्यताम् ।

<speaker>
वासुदेवः - </speaker>आचार्य ! आस्यताम् । गाङ्गेयप्रमुखा राजानः ! स्वैर-

मासतां भवन्तः । वयमप्युपविशामः । <stage>(उपविश्य )</stage> अहो दर्शनी -

योऽयं चित्रपटः । मा तावत् । द्रौपदीकेशधर्षणमत्रालिखितम् ।

अहोतुखलु,

<verse lang="sa">
सुयोधनोऽयं स्वजनावमानं पराक्रमं पश्यति बालिशत्वात् ।

को नाम लोके स्वयमात्मदोषमुद्घाधाटयेन्नष्टघृणः सभासु ॥ १८ ॥
</verse>

आः अपनीयतामेष चित्रपटः ।

<speaker>
दुर्योधनः- </speaker>बादरायण ! अपनीयतां किल चित्रपटः ।

<speaker>
काव्न्चुकीयः- </speaker>यदाज्ञापयति महाराजः । <stage>( अपनयति । )
</stage>

<speaker>
दुर्योधनः- </speaker>भो दूत !

</page>