2026-01-20 02:34:13 by akprasad
This page has been fully proofread once and needs a second look.
दूतवाक्ये
[ i. 12.2-
<p lang="sa">स्थितौ । अहो अस्य वर्णा
३
लेखता । सुव्यक्तमालिखितोऽयं चित्रपटः । प्रीतोऽस्मि । कोऽत्र ।
<p><speaker>काञ्चुकीयः- </speaker>जयतु महाराजः ।
<p lang="sa"><speaker>दुर्योधनः-</speaker> बादरायण ! आनीयतां स विहगवाहनमात्रविस्मितो
६
<p><speaker>काञ्चुकीयः - </speaker>यदाज्ञापयति महाराजः । <stage>(निष्क्रान्त: )
<p lang="sa"><speaker>दुर्योधनः- </speaker><error>वयम्य</error><fix>वयस्य</fix> कर्ण !
:--
<verse lang="sa">प्राप्तः किलाद्य वचनादि
दौत्येन भृत्य इव कृष्णमतिः स कृष्णः ।
श्रोतुं सखे ! त्वमपि सज्जय कर्ण ! कर्णौ
नारीमृ<error>दु</error><fix>दू</fix>नि वचनानि युधिष्ठिरस्य ॥ १३ ॥
<p lang="sa"><stage>( ततः प्रविशति वासुदेवः काञ्चुकीयश्च । )
३
<p lang="sa"><speaker>वासुदेवः - </speaker>अद्य खलु धर्मराजवचनाद् धनञ्जयाकृत्रिममित्रतया
चाहवदर्पमनुक्तप्राहिणं सुयोधनं प्रति मयाप्यनुचितदौत्यसमयोऽ
नुष्ठितः । अथच,
<verse lang="sa">कृष्णा पराभवभुवा रिपुवाहिनीभ
कुम्भस्थलीदलनतीक्ष्णगदाधरस्य ।
भीमस्य कोपशिखिना युधि पार्थपत्त्रि-
चण्डानिलैश्च कुरुवंशवनं विनष्टम् ॥ १४ ॥
<p>इदं सुयोधनशिबिरम् । इह हि,
<verse lang="sa">आवासाः पार्थिवानां सुरपुरसदृशाः स्वच्छन्दविहिता
विस्तीर्णाः शस्त्रशाला बहुविधकरणैः शस्त्रैरुपचिताः ।
हेषन्ते मन्दुरास्थास्तुरगवरघटा बृंहन्ति करिण
{HT: !
ऐश्वर्यं स्फीतमेतत् स्वजनपरिभवादासन्नविलयम् ॥ १५ ॥
<p>भोः!</p>
</page>