This page has not been fully proofread.

४४६
 
दूतवाक्ये
 
[ i. 12.2-
 
स्थितौ । अहो अस्य वर्णाढयता । अहो भावोपपन्नता । अहो युक्त-
३ लेखता । सुव्यक्तमालिखितोऽयं चित्रपटः । प्रीतोऽस्मि । कोऽत्र ।
काञ्चुकीयः- जयतु महाराजः ।
 
दुर्योधनः- बादरायण ! आनीयतां स विहगवाहनमात्रविस्मितो दृतः ।
६ काञ्चुकीयः - यदाज्ञापयति महाराजः । (निष्क्रान्त: )
 
दुर्योधनः- वयम्य कर्ण !
 
:--
 
प्राप्तः किलाद्य वचनादिहं पाण्डवानां
दौत्येन भृत्य इव कृष्णमतिः स कृष्णः ।
श्रोतुं सखे ! त्वमपि सज्जय कर्ण ! कर्णौ
नारीमृदुनि वचनानि युधिष्ठिरस्य ॥ १३ ॥
 
( ततः प्रविशति वासुदेवः काञ्चुकीयच । )
 
३ वासुदेवः - अद्य खलु धर्मराजवचनाद् धनञ्जयाकृत्रिममित्रतया
चाहवदर्पमनुक्तप्राहिणं सुयोधनं प्रति मयाप्यनुचितदौत्यसमयोऽ
 
नुष्ठितः । अथच,
 
कृष्णा पराभवभुवा रिपुवाहिनीभ -
कुम्भस्थलीदलनतीक्ष्णगदाधरस्य ।
 
भीमस्य कोपशिखिना युधि पार्थपत्त्रि-
चण्डानिलैश्च कुरुवंशवनं विनष्टम् ॥ १४ ॥
इदं सुयोधनशिबिरम् । इह हि,
 
आवासाः पार्थिवानां सुरपुरसदृशाः स्वच्छन्दविहिता
विस्तीर्णाः शस्त्रशाला बहुविधकरणैः शस्त्रैरुपचिताः ।
हेषन्ते मन्दुरास्थास्तुरगवरघटा बृंहन्ति करिण
 
{HT: !
 
ऐश्वर्यं स्फीतमेतत् स्वजनपरिभवादासन्नविलयम् ॥ १५ ॥